SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir न्द्रियस्याप्टौ सुकुमालादिविषयभेदा भवनि, यथा-सुकुमालकर्कशगुरुलघुशीतोष्ण स्निग्धरूक्षभेदात् , स्पर्शेन्द्रियः स्पर्शेन स्पर्श जानाति इत्यर्थः । पञ्चेन्द्रियाणां सर्वेऽपि त्रयोविंशतिर्विषयभेदा जाता इत्यर्थः । अथ श्रवणादीनामवगाहनामाह-चतुर्णा कर्णचक्षुर्घागरसनानामगुलासंख्येयभागावगाहना भवति । च पुनः स्पशेन्द्रियस्य स्वदेहप्रमाणावगाहना ज्ञातव्या । अथ केपामिन्द्रियाणां कामभोगेच्छा भवति तल्लक्षणमाह-श्रवणचक्षुषोः कामेच्छा भवति, च पुनः घ्राणरसनास्पर्शेन्द्रियाणां भोगेच्छा भवति, आद्यौ द्वी कामिनी ज्ञेयो त्रयः प्रान्ताः भोगिनो ज्ञेया इत्यर्थः । अथ एषां पञ्चेन्द्रियाणां पुनरुपकरणं किं स्यात्तदाहकर्णन्द्रियादीनां निजनिजविषयग्रहणशक्तिर्यथा चन्द्रहासस्य छेदनशक्तिरिख । इन्द्रियाणां सदृष्टान्तो विचारः प्रवचनसारोदारवृत्तितो भावनीयः । अष्टममिन्द्रिय द्वारं व्याख्यातं । अथ नवमं समुद्घातद्वारं प्ररूपयति-मणुएसु इति० मनुष्ये सप्त समुद्राता भवन्ति ॥१५॥ वेयणकसायमरणे, वेउब्बिय तेअर अ आहारे । केवलिय समुग्धाया, सत्न इमे हुंति सन्नीणं ॥१६॥ ____टीका-वेयणकसायेति० संज्ञिमनुष्याणाममी सप्त वेदनाकषायमरणादि (द्याः) समुद्घाता भवन्ति, भवन्तीत्यध्याहारः ॥१६॥ एगिदियाण केवल-तेउआहारग विणा उ चत्तारि । ते विउव्वियवज्जा, विगला सन्नीण ते चेव ॥१७॥ टीका-एगिन्दियाणेति० एकेन्द्रियाणां केवलतै जसाहार काविना-वजयित्वा चत्वारो वेदनाकपायमरणवैक्रियलक्षणाः सद्घाता भवन्ति । तु पुनः वैक्रियवस्तेि पूर्वज्ञाः (काः)। के ते ? केवलतैजसआहारकक्रियसमुद्घातवर्जा विकला भवन्ति, AAPASS-ज्वच्छ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy