SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir D द. प्र० सटीक ॥९॥ SHASABALI का स्पर्शेन्द्रियस्य च नानाकारा विचित्रसंस्थाना निवृत्तिरस्ति इत्यर्थः। द्रव्येन्द्रियस्वरूपं प्रोक्तं, अथ भावेन्द्रियाणि लब्ध्युपयोगदा रूपाणि जीवस्य ज्ञानावरणादिकर्मक्षयोपशमभावात् या शब्दग्रहणशक्तिः सा लब्धिः, येन पुनः शब्दादीनां ग्रहणपरिणामः स उपयोगः, एतद्द्वयरूपाणि भावेन्द्रियाणि । द्रव्येन्द्रियभावेन्द्रिययोः संस्थानं स्वरूपं च व्याख्यातं । अथ एपां पञ्चेन्द्रियाणां विषयमाह-श्रवणयोर्दादशयोजनविषयः स्यात् , द्वादशयोजनात् मेघादीनां शब्दग्रहणशक्तिरस्ति इत्यर्थः। च पुनः चक्षुषोः किश्चिदधिकं एक लक्षं विषयः स्यात् , उत्कृष्टतः किश्चिदधिकमेकं लक्षं दृष्टिप्रसरणं भवति इत्यर्थः, अत्र ज्ञातं विष्णुकुमारदृग्गोचरता । च पुनः घाणेन्द्रियस्य नव योजनानि यावत् विषयः स्यात् , नवयोजनात् विषयं गृह्णाति इत्यर्थः । पुनः उत्कृष्टतो रसनायाः नव योजनानि यावद्विषयः स्यात् , नवयोजनात्पुद्गलरसमास्वादयतीत्यर्थः। यथा दूरतस्तितिडीरसालक्षारादीन् दृष्ट्या मुखे जलं समेति इति दृष्टान्तो ज्ञेयः । तथा स्पर्शेन्द्रियस्य नवयोजनानि यावत् विषयो भवति, स्वशरीरं प्रारभ्य नवयोजनप्रान्तं यावत् पुद्गलद्रव्यं स्पर्शेन्द्रियो गृह्णाति इत्यर्थः। च पुनरेषां पश्चानां विषयभेदं विवृणोति-श्रोत्रयोराकर्णनंश्रवणं त्रिधा भवति, यथा-शुभः अशुभः मिश्रश्च । अथवा जीवेभ्यो द्वीन्द्रियादिभ्यः, अजीवेभ्यः पटहादिभ्यो मिश्रेभ्यो भेर्यादिभ्यः, (शब्दानामुत्पन्नानां) कर्णयोराकर्णनं त्रिविधं स्यात् । च पुनः चक्षुषोर्विलोकनभेदाः पञ्चधा भवन्ति, यथा-चक्षुषा पञ्च शुक्लपीतरक्तनीलकृष्णा वर्णा गृह्यन्ते, पञ्चवर्णा दृष्टिगोचरा भवन्ति इत्यर्थः । तथा घ्राणेन्द्रियस्य द्वौ सुगन्धदुर्गन्धविषयभेदौ भवतः, घाणेन्द्रियं सुगन्धदुर्गन्धे गृह्णाति इत्यर्थः, घाणविपये समभ्येत इत्यर्थः। रसनायाः पञ्च कटुकादिविषयभेदा भवन्ति । केऽपि पडप्याहुः, यथा कटुकतिक्तकपायाम् लमधुरक्षारभेदात् । पण्णामपि रसानां स्वादं निहा जानाति इत्यर्थः। तथा स्पर्श For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy