________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
-%AALCCCCCRACCORECAS
| जोइसिय तेउलेसा, सेसा सव्वेवि हुंति चउलेसा । इंदियदारं सुगमं, मणुआणं सत्त समुग्घाया ॥१५॥
(अव०) ज्योतिष्काः केवलतेजोलेश्यावन्तः शेषाः सर्वेऽपि पृथिव्यवनस्पतिभवनपतिव्यन्तराश्चतुर्लेश्या भवन्ति । तेजोलेश्यावतां केपाश्चिद्देवानां भूजलबने पुत्पादात् कियत्कालं तल्ले श्यासम्भवः ॥७॥ इन्द्रियद्वारं सुगमम् ॥ ८॥ नवमं समुद्घातबारमाह-मनुष्येषु सप्त समुद्घाताः ॥ १ सप्तसमुद्घातानां नामान्याह
टीका-जोइसियेति तेजोलेश्याका ज्योतिप्काः भवन्ति । आद्यपदं व्याख्यातं । गाथाद्वितीयपादस्य व्याख्यानमाहसेसा सव्वे वित्ति० शेषाः सर्वेऽपि चतुर्लेश्यावन्तः स्युः । को भावः ? चतुर्दशदण्डकेषु चतस्रो लेश्याः भवन्ति । तद् विस्तरेणाहभवनपतीनां व्यन्तराणां च कृष्णा नीला कापोता तैजसी चेति चतस्रो लेश्याः स्युः। च पुनः पृथिव्यब्धनस्पतीनां कृष्णाद्याश्चतस्रो लेश्याः स्युः, अत्रापि विशेषमाह-परमाधार्मिकाणां कृष्णव ज्योतिप्केषु आद्यकल्पद्विके च तेजोलेश्या । कल्पत्रिके सनत्कुमारादिके पद्मलेश्या, लान्तकादिषु चानुत्तरान्तेषु शुक्ललेश्या भवति, भवति इत्यध्याहारः। सप्तमं लेश्याद्वारं निरूपितं । अथ अष्टम इन्द्रियद्वारं व्याख्यानयति-इंदियेति० इन्द्रियद्वारं सुगममपि बहिस्तः किमपि विशेषमाह-तत्र इन्द्रियाणि पश्च श्रोत्रादीनि प्रसिद्धान्येव सामान्यतः, विशेषतः पुनस्तानि द्विधा द्रव्येन्द्रियाणि भावेन्द्रियाणि (च)। तत्र द्रव्येन्द्रियाणि पुद्गलद्रव्यरूपाणि भावेन्द्रियाणि लब्ध्युपयोगलक्षणानि, तत्र पुनद्रव्येन्द्रियाणि निवृत्युपकरणभेदात् द्विधा । निवृत्तिरपि द्विधा अन्तबहिश्च । तत्र श्रोत्रेन्द्रिस्यान्तर्मध्ये कदम्बपुष्पाकारदेहावयवरूपा चक्षुषोर्मसराकारा घाणयोरतिमुक्तपुष्पाकारा रसनायाः क्षुरप्राकारा
5555555
For Private and Personal Use Only