________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
AAAAAAEERE
टीका-सव्वेसिं चउ दहेति० सर्वेषां चतुर्विंशतिदण्डकजीवानां आहारभयमैथुनपरिग्रहलक्षणाश्चतस्रः संज्ञाः स्युः । अथवा दश संज्ञाः स्युः । यथा-पूर्वोक्ताश्चतस्रः क्रोधमानमायालोभलोकओघलक्षणाः (णाश्चेति) संज्ञाः दश भवन्ति, भवन्तीत्यध्याहारः। चतुर्थ संज्ञाद्वारं व्याख्यातं । अथ पश्चमं संस्थानद्वारं प्रोच्यते । सम्वे सुरेतिक भवनपत्यादिवैमानिकान्ता देवाः सर्वेऽपि समचतुरस्रसंस्थानाः स्युः, समाश्चतस्रोऽस्रयश्चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः यत्र समा वा चत्वारोऽस्राः कोणाः यत्र ते (तत्) समचतुरस्राः (सं) गर्भजनरा गर्भनतिर्यञ्चश्च तयोः समचतुरस्रन्यग्रोधपरिमण्डलसादिकुब्जबामन हुण्डाख्यानि पडपि संस्थानानि भवन्ति । हुंडा वीति० विकलेन्द्रियाणां नैरयिकाणां स्थावराणां च हुण्डाख्यसंस्थानं स्यात् । हुण्डस्य किं लक्षणं स्यात् ? तदुच्यते । यथा-सावयवेषु अलक्षणं स्यात् , शुभाकाररहित हुण्डं भवति इत्यर्थ । ननु चतुर्विंशतिदण्डकानां षडपि संस्थानानि प्रोक्तानि, यदि स्थावराणां नानाविधध्वजसूचिवुवुदार्धमसूरा (आ)कारा वर्तन्ते तर्हि बहुनि संस्थानानि भवन्ति ! प्रोच्यते. अमी भेदा हुण्डान्तर्गता भवन्ति इत्यर्थः ॥१२॥
हुण्डस्य भेदनाहनाणाविह धयसूइ, बुब्बुय वणवाउतेउअपकाया । पुढवीमसूरचंदा-कारा संठाणओ भणिया ॥ १३ ॥ ___ (अब०) नानाविधं, १ ध्वजः पताका, २ सूची, ३ बुबुदाकाराणि क्रमेण वनस्पतिवायुतेजोऽप्कायशरीराणि । पृथ्वी अर्द्धममुरा कारा भणिता भगवत्यादौ ॥ १३ ॥ षष्ठं कपायद्धारमाह
ॐॐॐॐॐॐॐॐॐ
For Private and Personal Use Only