SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir जोयणमेगं चउरिं-दिदेहमुचत्तणं सुए भणिों । वेउब्बियदेहं पुण, अंगुल संखं समारंभे ॥ ८॥ (अव०) गर्भजतिरश्वां मत्स्यादीनां योजनसहस्रं, वनस्पतेः साधिकयोजनसहस्रं तवं तु पृथ्वीविकारः । नरास्त्रीन्द्रियाश्च त्रिगव्यूतोच्चाः। द्वीन्द्रिया 'जोयणे बारत्ति' द्वादशयोजनोच्छ्याः । चतुरिन्द्रियदेहमुच्चत्वेन योजनमेकं । श्रुते प्रज्ञापनादौ भणितमुक्तं प्रस्तावादाह-चैक्रियदेहं पुनः प्रारम्भेऽङ्गुलसङ्ख्यातभागमानं, उत्कृष्टं 'देवनरअहियलक्खंति' । २द्वा० ॥७-८॥ टीका)-गम्भतिरिसहसेति० मत्स्योरगादयो गर्भजास्तियञ्चः सहस्रयोजनमानाः सहस्रयोजनप्रमाणा भवन्ति, भवन्ती-2 | त्यध्याहारः । वणस्सेति. प्रत्येकवनस्पतीनां सागरादिगतपद्मनालादीनां शरीरं देहमानं किश्चिदधिकं योजनसहस्रमुच्चत्वं स्यात् ।। ननु शरीरमानं उत्सेधांगुलेन समुद्रपद्माइदादीनां प्रमाणांगुलयोजनयोजनसहस्रावगाहत्वात् तद्गतपद्मनालादीनां तु उत्सेधांगुलापेक्षयात्यन्तदैध्यं स्यात् ? अत आह-उत्सेधांगुलयो जनसहस्रमाने जलाशये गोतीर्थादिस्थाने वनस्पतेः साधिकं योजनसहस्रं, तद्वं तु पृथिवीविकार इत्यर्थः । नरतेइन्ति० श्रुते सिद्धान्ते नराणां मनुष्याणां त्रीन्द्रियाणा कर्णसगालिकादीनां क्रोशत्रिकं देहोच्चत्वं भणितं कथितं अईतेति कर्तृपदं । गन्यूतित्रयमुच्चले शरीरमानेन नरत्रीन्द्रियौ भवत इत्यर्थः । बेइंदियेति द्वीन्द्रियाणां शङ्खप्रभृतीनां द्वादशयोजनप्रमाणं देहोच्चत्वं वपुर्मानं स्यादित्यर्थः ॥७॥ जोयणेति चतुरिन्द्रियाणां मक्षिकाभ्रमरदंशककंशारिशलभपतनवृश्चिकप्रमुखाणामुत्कृष्टतो योजनमेकं देहमानमुच्चत्वं भणितं कथितं । अत्र खण्डान्वयो ज्ञेयः, गाथात्रयेणावगाहनास्वरूपं व्याख्यातं । अथ पुनक्रियावगाहनामाह-वेउन्वियेति, पुनक्रिय देहस्य प्रारम्भे जघन्यतोऽङ्गुलस्य संख्यांशः संख्येयभागं AAAAAAAEE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy