SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir PEASE कककककका विकलानां त्रयः, गर्भजतिर्यगमनुष्यव्यन्तरज्योतिष्कवैमानिकदण्डकाश्चेति सर्वे २४, इह सूक्ष्मा अपर्याप्तकाश्च प्रायो नाधिक्रियन्ते ॥२॥ RM (टीका) नेरेति० अत्र नैरयिकाः पृथिवीभेदेन सप्तघा ज्ञातव्याः, सप्तविधाः सप्त प्रकारा येषां ते सप्तविधाः । यथा-१ रत्नप्रभा २ शर्कराप्रभा ३ वालुकाप्रभा ४ पङ्कप्रभा ५ धूमप्रभा ६ तमःप्रभा ७ तमस्तमःप्रभा । एतासु भवानां नैरयिकानामेको PL दण्डको ज्ञेयः । इह हि दण्डकाधिकारत्वात् चतुर्विंशतिस्थानेषु पूर्वगाथोक्तदण्डकशब्दो योजनीयः । असुरकुमारादीनां भवनपXII तिनिकायभेदेन दश दण्ड काः म्युरित्यर्थः, अस्यन्ति क्षिपन्ति देवान् सुरान् ते असुराः, कुमाराकाराः कुमारवस्क्रीडाप्रियत्वाच्च कुमाराः, ते च ते कुमाराश्च असुरकुमाराः । ते आदौ येषां ते अमुरकुमारादयः। तेषां दशप्रकारत्वादश दण्डकाः स्युरित्यर्थः | तथा पृथिव्यादीनां पृथिव्यप्तेजोवायुवनस्पतिनिकाय भेदानां पञ्च दण्डका स्युः । द्वीन्द्रिया आदौ येषां ते द्वीन्द्रियादयः । | तत्र (द्वे) शरीररसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः। यथा-शङ्खकपर्देत्यादयः । त्रीणि शरीररसनावाणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः । यथा-पिपीलिकामत्कुणेत्यादयः । चत्वारि शरीररसनाघ्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः। यथा-मक्षिकाभ्रमरपतवृश्चिकेत्यादयः । एवं द्वित्रिचतुरिन्द्रियैः कृत्वा दण्डकास्त्रयो जाताः स्युरित्यर्थः । गर्भे भवाः गर्भजाः ते च ते तियश्चश्च मनुष्याश्च गर्भजतियन्मनुप्यास्तेषां द्वौ दण्डको स्यातामित्यर्थः। तथा विविधमन्तरं बनान्तरादिकमाश्रयतया येषां ते व्यन्तराः यद्वा भृत्यवच्चक्रबाराधकत्वेन विगतोऽन्तरं विशेषो मनुष्येभ्यो येषां ते तथा, वनानामन्तरे भवाः पृषोदरादित्वान्मागमः वानमन्तराः तेषामेको दण्डका स्यात् । ज्योतिष्काणां चन्द्रसूर्यग्रहनक्षत्रताराणामेको दण्ड को ज्ञेयः । वैमानिका For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy