SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द. प्र० ॥ २ ॥ www.kobatirth.org नामेको दण्डकः । ते च द्विधा - कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पः स्थितिर्जीत मर्यादेत्येकार्थाः । स च इन्द्रतत्समानिकादिव्यवस्थारूपस्तं प्रतिपना कल्पोपपन्नाः ग्रैवेयकानुत्तरवासिनस्तु कल्पातीताः, तेषां सर्वेषामप्यहमिन्द्रत्वात् । विमान्ति वर्त्तन्तेsस्मिन् देवा इति विमानं तत्र भवा वैमानिकाः । नैरयिकादिवैमानिकान्ता एते चतुर्विंशतिदण्डकाः ज्ञातव्याः । अत्र चकारः समुच्चयार्थः एवशब्दो ग्राह्यः । अत्र गाथायां दण्डकशब्दोऽनुक्तोऽपि दण्डकशब्दो ग्राह्यः । अत्र दण्डक शब्देन किमुच्यते ? तदाह - तज्जातीय समूहप्रतिपादकत्वं ज्ञेयमित्यर्थः । संक्षेपतो गाथाद्वितीयस्य ( द्वितीयगाथायाः) व्यथाख्यानं विहितं । इह सूक्ष्मा अपर्याप्ताश्च प्रायो नाधिक्रियन्ते ॥ २ ॥ अथ चतुर्विंशतिद्वारेषु गाथाद्वयेन शरीरादिवरूपवक्तव्यमाहसंखित्तयरी उ इमा, सरीरमोगाहणा य सङ्घयणा । सन्नासंगणकसाय, लेसिन्दियदुसमुग्धाया ॥ ३ ॥ दिट्ठी दंसणनाणे, जोगुवओगोववायचवणटिई । पज्जत्तिकिमाहारे, सन्निगइआगई वे ॥ ४ ॥ (अत्र०) गाथाद्वयं लघुसंग्रहणीसत्कमिदेषामेव पदानां विचारणीयत्वात् षट्त्रिंशिकायां लिखितम्, व्याख्यालेशश्च यथा-स्त्राभाविकशरीरं च पञ्चधा, औदारिकवैक्रियाहार कतैज स कार्मणभेदात् | १| एषां चावगाहनोच्छ्रयमानं जघन्यमध्यमोत्कृष्टभेदात् त्रिधा |२| कार्मग्रन्थिकाभिप्रायेण अस्थिरचनाविशेषः संहननं तच्च पोढा वज्रऋषभनाराच १ ऋषभनाराच २ नाराचा ३ र्धनाराच ४ कीलिका ५ सेवार्त्त ६ भेदात् संहननादिलक्षणं तल्लक्षणशास्त्रादव सेयम् | ३| संज्ञा चतस्रः - आहार - भय - परिग्रह - मैथुनलक्षणाः, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक. अव० ॥ २ ॥
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy