SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir CEOS Pसम्यक्त्वं लभते जीवः । तत् अपौगलिकं ज्ञेयं अंतर्मुहुर्तकालं यावद्भवति । या द्वितीया स्थितिः मिथ्यात्वस्य वर्त्तते तत्र पुंजत्रयं करोति शुद्धं अर्द्धविशुद्ध अशुद्धं च । यथा कोद्रवाणां गोमयपानीयादिभिः उत्तारित मदनभावानां शुद्धपुंजं । अर्दोत्तारितः अर्द्धशुद्धपुंजः । अनुत्तारितमदनानां अशुद्धः पुंजः। एवं मिथ्यात्वदलिकस्यापि क्षपितमिथ्यात्वानुभावस्य यः पुंजः स शुद्धः । क्षायोपशमिकसम्यक्त्वरूपः कथ्यते । यः अर्द्धशुद्धपुंजः स मिश्रः कथ्यते । योऽशुद्धपुंजस्तन्मिथ्यात्वं । तत्र औपशमिकसम्यक्त्वकालस्य जघन्यतः एकसमयशेषे उत्कृष्टतः पडावलिकाशेषे अनंतानुबंध्युदयो भवति । येन औपशमिकसम्यक्त्वं कलुषीभवति । तदा सम्यक्त्ववमनकाले सास्वादनं भवति । २ पूर्वोत्तरपुंजत्रयमध्ये यदा शुद्धपुंजोदयस्तदा क्षायोपशमिकसम्यक्वं भवति । ३ पुंजत्रयमध्ये क्षपणकाले क्षपणसमये वेदकसम्यक्त्वं भवति । ४ क्रोधमानमायालोभानां अनंतानुबंधिनां चतुर्णा क्षये मिथ्यात्वमिश्रपौद्भलिकसम्यक्त्वक्ष यरूपपुंजत्रयक्षायिकं सम्यक्त्वं लभते जीवः तदपि अपौगलिकं । ५ तत्र क्षायिक सम्यक्त्वे भवति मोक्षः न शेषसम्यवत्व चतुष्टये । अनाहार मार्गणा स्थानं द्विधा आहारक-अनाहारक भेदात् । तत्र अनाहारकस्य मोक्षो भवति न आहारकस्यापि । ज्ञानामार्गणास्थानं पंचधा मतिज्ञान १ श्रुतज्ञान २ अवधिज्ञान ३ मनःपर्यवज्ञान ४ केवलज्ञान ५. भेदात् । तत्र केवलज्ञाने मोक्षो भवति न शेष ज्ञानचतुष्टये । दर्शन मार्गणास्थानं चतुर्दा चक्षुर्दर्शन १ अचक्षुर्दर्शन २ अवधिदर्शन ३ केवलदर्शन ४ भेदात् । तत्र केवलज्ञाने मोक्षो भवति न शेषदर्शनत्रयेऽपि । इति सत्पद प्ररूपणाद्वारं व्याख्यातं । अथातः परं द्रव्यप्रमाणं कथ्यते । दव्वपमाणे सिद्धा-णं जीव दव्वाणि हुंति णताणि । लोगस्स असंखिज्जे, भागे इको य सव्वेवी ॥३५॥ SAGAREFERRIEREIRORS For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy