SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अव० न. त ॥१॥ तत्र प्रथमचरमतीर्थकरतीर्थवर्तिसाधूनां सामायिकं द्विधा देशसामायिक सर्वसामायिकं । तत्र देशसामायिकं श्रावकाणां भवति । सर्वसामायिकं यावज्जीवं सर्वसावधव्यापार निषेधरूपं । इदं सर्व तीर्थवर्विसाधूनां । १ द्वितीयं छेदोपस्थापनीयं तच्च | प्रथमचरमतीर्थकरतीर्थवर्तिसाधूनां पूर्वपर्यायच्छेदनं पंचमहाव्रतेषु उपस्थापनरूपं । २ तृतीयं परिहारविशुद्धिकं तत् नव | साधूनां समुदायेऽष्टादशमासान यावत्तपो विशेषरूपं पश्चात् जिनकल्पं प्रतिपद्यते स्थविरकल्पिकं वा । ३ चतुर्थ सूक्ष्मसंपरायं ईषन्मात्रसंज्वलनलोभाणुमात्रोपशमरूपं दशमगुणस्थानवर्ति साधूनां भवति । ४ पंचमं यथाख्यातं सर्वमोहनीयाष्टाविंशति प्रकृतीनां षोडशकषाय नवनोकषाय मिथ्यात्वमिश्र सम्यक्त्व त्रिपुंजरूपाणां उदयभावाद् भवति । ५ तत्र ययाख्यातचारित्रेण मोक्षो भवति न शेषचतुश्चारित्रेषु । सम्यक्त्वमार्गणास्थानं पंचधा । औपशमिकं १ सास्वादनं २ क्षायोपशमिकं ३ वेदकं ४ क्षायिकं ५ । तत्र औपशमिकं सम्यक्त्वे एवं लाभः स्यात् । ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-अंतरायकर्मणां त्रिंशत्कोटाकोटी सागरोपमस्थितिप्रमाणानां एकोनत्रिंशत्कोटाकोटीसागरोपमस्थितेः क्षयात् मोहनीयकर्मणः सप्ततिकोटाकोटीसागरोपमस्थितिकस्य एकोनसप्ततिकोटाकोटीसागरोपमस्थितेः क्षयात् नामगोत्रयोविंशतिकोटाकोटीसागरोपमप्रमाणयोरेकोनविंशतिकोटाकोटीसागरोपमस्थितेः क्षयात् तेषां एकैक कोटाकोटीसागरोपमस्थितिमध्यप्रतिष्ठानां यथाप्रवृत्तिकरणेन निबिडरागद्वेषपरिणामरूपौ दुर्भदौ ग्रंथिदेशौ प्राप्तोजीवः अपूर्वकरणेन ग्रंथिदेश भिनत्ति । समय समयं प्रति अनंतविशुद्धथा विशुद्धमानो जीवः तत्र अंतरकरणेन मिथ्यात्वस्थितिरेककोटाकोटिसागरोपमस्थितिप्रमाणस्य स्थितिद्वयं करोति । प्रथमा स्थितौः अंतर्मुहूर्तिकी द्वितीया तदूना 51 शेषस्थितिः । प्रथमस्थितौ प्रतिसमयं मिथ्यात्वपुद्गलान् अनुभवन् क्षीणायां सत्यां अंतरकरणस्य आधसमय एव औपशमिक- छनञ्छना ॥१४॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy