________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२८
चरक-संहिता। विचिकित्सितम् देवदारु हरिद्र द्वे सुरसं चन्दनागुरु । राना गोरोचनाजाजी गुगगुल्विक्षुरसो नतम् ॥ चूर्ण ससैन्धवानन्तं गोपित्तमधुसंयुतम् । चतुष्पदानां दष्टानामगदः सार्वकाम्मिकः ॥ ६४॥ सौभाग्याथ स्त्रियः स्वेद-रजोनानाङ्गजान् मलान् । शत्रुप्रयुक्तांश्च गरान प्रयच्छन्त्यमिश्रितान् ॥ तैः स्यात् पाण्डुः कृशोऽल्पाग्निगरश्वास्योपजायते। मर्मप्रधमनाध्मानं श्वयथर्हस्तपादयोः॥ जठरं ग्रहणीरोगो यक्ष्मा गुल्मः क्षयो ज्वरः। एवंविधानि चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ॥ ६५ ॥ खप्ने मार्जारगोमायु-व्यालान् सनकुलान् कपीन्। प्रायः पश्यति नद्यादोन् शुष्कांश्च सवनस्पतीन् ॥
गङ्गाधरः-देवदावित्यादि। चतुष्पदानां गवादीनां सर्पादिदष्टानां सार्वकार्मिकः पानालेपनसेकादिषु सर्वकर्मस्वयमगदः॥६४॥
गङ्गाधरः-अथ वरोधिकयोगमाह-सौभाग्यार्थमित्यादि। स्त्रियो मन्दबुद्धय एव सौभाग्याथ वशीकरणाद्यर्थ स्वेदादीन् मलानम्नमिश्रितान प्रयच्छन्ति शत्रुभयुक्तान गरांश्च शत्रूभिः सोभाग्यकरमिदमित्युक्त्वा दत्तान् गरांश्च स्त्रियः प्रयश्छन्ति। भुक्तस्तैः पुरुषस्यास्य पाण्डादिरुपजायते। एवंविधस्य चान्यस्य व्याधेलिहानि भुक्तं तन्मलादिकं दर्शयेत् ॥ ६५॥
गङ्गाधरः-स पुमान् स्वप्ने प्रायो मार्जारादीन् पश्यति। नद्यादीन् जलाशयान् शुष्कान् प्रायः स्वप्ने पश्यति। वनस्पतींश्च शुष्कान् मायः
पक्रपाणि:-अनमिश्रितानिति भक्ष्यमिश्रितान। गरश्चास्योपजायत इति वक्ष्यमाणमम्मप्रभमनादिलक्षणो व्याधिर्जायते ॥ ६॥६५॥
For Private and Personal Use Only