________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः चिकित्सितस्थानम् । ३२२६
कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम् । . विकर्मनासिकं वापि प्रपश्येदहतेन्द्रियः॥ तमवेक्ष्य भिषक प्राज्ञः पृच्छेत् किं कः कदा सह। जग्धमित्यवगम्याशु प्रदद्याद वमनं बुधः॥ सूक्ष्मं ताम्ररजश्चास्मै सक्षौद्रं हृदविशोधनम् । शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् ॥ हेम सर्वविषाण्याशु गरांश्च विनियच्छति। न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत् ॥ ६६ ॥ नागदन्तीत्रिवृदन्ती-द्रवन्तीस्नुपयःफलैः । साधितं माहिषं सर्पिोमूत्राढ़काचितम् ॥
सर्पकीटविषार्तानामौषधश्च प्रशान्तये ॥ ६७॥ स्वप्ने पश्यति। कालः कृष्णवर्णः पुमान् स्वप्ने प्राय आत्मानं स्वं गौर पश्यति, गौरश्च पुमान् स्वप्ने आत्मानं कालकं कृष्णवर्ण पश्यति । एवमहतेन्द्रियः स पुमान् स्वप्ने प्राय आत्मानं विकर्णनासिकं वा प्रपश्येत्। भिषक प्राशस्तमवेक्ष्य पृच्छेत्-भोः कदा कैः सह किं भवता जग्धम् ? इति । ततस्तदव गम्य बुध आशु वमनं प्रदद्यात्। वमनन्तु सूक्ष्म ताम्ररजः सक्षौद्रं हृदविशोधनं प्रदद्यात् । हृदि शुद्ध सति हेमचूर्णस्य शाणं दापयेत्। कस्मात् ? यस्मात् हेम स्वर्ण सर्भविषाणि गरांश्चाशु नियच्छति । यतो हेमपस्याले विषं न सज्जते पद्मदलेऽम्बुवदिति ॥६६॥
गाधरः-नागदन्तीत्यादि । त्रिया दन्ती । दीर्घमूला नागदन्ती इस्वमूला त्रिदन्ती इस्खमूलक्षुद्रक्षा द्रवन्तो। स्नुरूपयः । फलं मदनम्। एभिः कल्कैः पादिकंगोमूत्राढ़कपाचितं प्रस्थोन्मितं माहिषं पुराणं सर्पिः सर्पादिविषार्तानां पशान्तये आषधम् ॥ ६७ ॥ विहतेन्द्रिय इति रोगोपहतेन्द्रियः । पृच्छेदित्यादौ पृच्छायां गरावधारणमेव फलमवगम्यते । सूक्ष्ममित्यादौ अमृतताम्रचूर्ण देयम्। अमृतेनैव वमनं भवति । हेमप इति हेम पिबतीति हेमपः॥६६॥ चक्रपाणि:-नागदन्ती दन्तीभेदः। फलं मदनफलं न तु फलैरिति पाठः। अयं योगः
४०५
For Private and Personal Use Only