SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३० चरक-संहिता। विषचिकित्सितम् शिरीषत्वक त्रिकटुकं त्रिफला चन्दनोत्पले। द्वे बले सारिवे श्वेता--सुरभीनिम्बपाटलाः॥ बन्धुजीवादकोमूळ-वासासुरसवत्सकान् । पाठाङ्कोठाश्वगन्धार्क-मूलयष्टापद्मकान् ॥ विशालां वृहती द्राक्षां कोविदारं शतावरीम् । कटभीदन्तापामार्ग-पृश्निपीरसाञ्जनम् ॥ श्वेतौ + वालाश्वखुरको कुष्ठदारुप्रियङ्गुकान् । विदारी मधूकात् सारं करञ्जस्य फलत्वचौ॥ रजन्यौ लोधमक्षांशं पिष्टा साध्यं घृतादकम् । तुल्याम्बुच्छागगोधूत्र-त्रादके तविषापहम् ॥ अपस्मारज्वरोन्माद-भूतग्रहगरोदरम्। पाण्डुरोगान् क्रिमोन् गुल्मान् प्लीहोरुस्तम्भकामलाः ॥ गङ्गाधरः-शिरीषेत्यादि। वे बले द्वे च सारिवे। श्वेता श्वेतापराजिता । सुरभी मुगन्धा गन्धरास्ना। श्वेतो श्वेतवणो द्वौ बालाश्वस्य खुरको। मधूकात् सारं मधूकक्षस्य सारभूतकाष्ठम्। करञ्जस्य गोकरञ्जस्य फलश्च व च। एषामक्षांश पिष्ट्वा घृताढ़कं पोडशशरावं घृतं तुल्याम्बु षोड़शशरावनलं छागमूत्रसादक गोमूत्रसा ढकमिति बाढ़के छागगवयोमूत्रे चतुर्गुणद्रवे साध्यं तद घृतं विषा पहम् । अमृतं घृतम्। अथात्र क्षारागद इति यत् मागविहितं तत् तन्त्रान्तरोक्तमनुमतम् । तदुक्तं सुश्रुते । “धवाश्वकर्ण तिनिशपलाश पिचुमई पाटलिपारिभद्रकाम्रो. डम्बरकरहाठकककुभसज्ज- कपीतनश्लेष्मातकाकोठकामलक--प्रग्रहकुटज शमी. कपित्थाश्मान्तका चिरविल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रशाकगोजीमूर्वा तिल्वकेक्षुरक गोपघण्टारिग्दानां भस्मान्याहत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत् । दद्याचात्र पिप्पलीमूलताडुलीयक-बराङ्गचोचकमञ्जिष्ठाअतुकण पठ्यते। नागदन्ती खिवृदन्ती द्रवन्ती स्नुक्क्षीरफलं गोमूत्रसिद्ध माहिषं घृतं पाययेदिति ॥ ६ ॥ * शारिवास्फोता इति पाठान्तरम् । । श्वेतभण्डश्चेति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy