SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | विषचिकित्सित ३२२० चरक-संहिता। हृदि दाहे प्रसेके च विरेकवमनं भृशम् । यथावस्थं प्रयोक्तव्यं शुद्ध संसर्जनक्रमः ॥ . शिरोगते विषे नस्तः कुर्य्यान्मूलानि बुद्धिमान् । बन्धुजोवस्य भाा वा सुरसस्यासितस्य च ॥ दक्षकाकमयूराणां मांसास्मृङ् मस्तके क्षते। मूट्टि देयमधो दष्टे मूद्धि दष्टस्य पादयोः॥ पिप्पलीमरिचक्षार-वचासैन्धवशिग्रु काः। पिष्ठा रोहितपित्तेन प्रत्यक्षिगतमञ्जनात् ॥ कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे। लिह्यादामाशयगते ताभ्यां चूापलं नतात् ॥ विषे पक्काशयगते पिप्पलोरजनीद्वयम् । मञ्जिष्ठाञ्च समं पिष्टा गोपित्तेन पिबेन्नरः ॥ गङ्गाधरः-हदीत्यादि। हृदि दाहे च मुखप्रसेके च भृशं विरेचनवमनं यथावस्थं प्रयोक्तव्यम् । शुद्धे सति विरेचनेन वमनेन च संसर्जनक्रमः पेयादिपथ्यक्रमः काय्यः। शिरोगत इत्यादि। शिरोगते विषे बन्धुजीवाद्यन्यतमस्य मूलानि बुद्धिमान् नस्तः कुर्यात् नस्यं कुर्यात्। असितसुरसः कृष्गतुलसी। दक्षेत्यादि। व्याडेन मस्तके क्षते दक्षादीनां मांसमसृक् च मूद्धि देयम् । दक्षः कुककूटः । पादयोरधो दष्टे दष्टस्य मूद्धि दक्षादीनां मांसासक देयमिति । पिप्पलीत्यादि। रोहितमत्स्यपित्तेन पिष्टाः पिप्पल्यादयोऽञ्जनादक्षिगतं विषं घ्नन्ति। कपित्थेत्यादि। आम कपित्थफलशस्यं सिताक्षौद्रसहितं कष्ठगते विषे लिह्यात्। आमाशयगते विषे नतात्तगरपादुकाच्चूर्णपलं ताभ्यां सितामधुभ्यां लिह्यात्। विष इत्यादि। पक्काशयगते विष पिप्पल्यादि चक्रपाणिः-ऊर्द्ध दष्टस्य पादयोरित्यत्रापि तयोरेव पादयोर्षिशेषेण संक्रमणार्थ मांसासकदान देयम् । ताभ्यामिति सिताक्षौदाभ्याम् । नतं तगरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy