________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अभ्यायः
चिकित्सितस्थानम् । रक्तं मांसश्च गोधायाः शुष्कचूर्णाकृतं हितम् । विषे रसगते पानं कपित्थरससंयुतम् ॥ शेलोमलत्वगग्राणि बदरोडुम्बराणि च । कटभ्याश्च पिबेद रक्त-गते मांसगते पिवेत् ॥ सक्षौद्र खदिरारिष्टं कोटजं मूलमम्भसा । सर्वेषु च बले द्वे च मधूक मधुकं नतम् ॥ पिप्पली मरिचं क्षारं नवनीतेन मूर्च्छितम् । प्रवृद्धे श्लेष्मणि भिषक् प्रदद्यात् प्रतिसारणम् ॥४८॥ मांसीकुङ्कमपत्रत्वक्रजनीनतचन्दनैः। मनःशिलाव्याघ्रनख-सुरसरम्बुपेषितैः॥ पाननस्याञ्जनालेपाः सर्वशोथविषापहाः॥ ४६॥ . शिरोषपुष्पस्वरसे सप्ताह मरिचं सितम् । भावितं सर्पदष्टानां नस्यपानाञ्जने हितम् ॥ द्विपलं नतकुष्ठाभ्यां घृतक्षौद्र चतुष्पलम् ।
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम् ॥ ५० ॥ ५१ ॥ चतुष्कं समं गोपित्तेन पिष्ट्वा पिवेत् । रक्तामत्यादि। रसधातुगते गोधाया रक्तं मांसश्च संशोज्य चूर्णीकृतं कपित्थरससंयुतं पानं हितम् । शेलोरत्यादि। रक्तगते विषे शेलोश्चालित्रफलवृक्षस्य मूलखक बदरादीनां शाखाया अग्राणि कटभ्याचाराणि पिष्ट्वा जलेन पिबेत् । मांसगते सक्षौद्रं खादिरारिष्टं पिबेत् । तथा कोटजं मूलमम्भसा पिष्ट्वा पिवेत् । सर्वेषु सम्बंधातुगते विषे द्वे बले मधुकं मधूकश्च नतश्चाम्भसा पिष्ट्वा पिवेत्। पिप्पलीत्यादि। प्रतिसारणं घर्षणम् ॥४८॥
गङ्गाधरः-मांसीत्यादि। मांस्यादिभिः सुरसान्तैरम्बुपेषितैः पानादयः॥४९॥
गङ्गाधरः-शिरीपेत्यादि। सितं मरिचं श्वेतमरिचं शोभाञ्जनवीजं सप्ताह शिरीषपुष्पखरसे भावितं नस्यपानाञ्जने सपैदष्टानां हितम्। द्विपलमित्यादि। ...शेलुः श्लेष्मातका । मांसगत इति उत्तरेण संवध्यते। खदिरश्चारिएश्चेति खदिरारिष्टः, किंवा खदिरकृतोऽरिष्टः। मधुकं नतमिति च्छेदः। पिप्पलीत्यादि प्रतिसारणम् । मरिचं सितमिति शोभाअनकं वीजम् ॥ ४८-५१॥
For Private and Personal Use Only