SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः चिकित्सितस्थानम् । ३२१६ स्यात् त्रिदोष-8-प्रकोपात् तु तथा धातुविषय्ययात् । शिरोऽभितापलालास्त्र-व्यथावक्रदेव च ॥ अन्येऽप्येवंविधा व्याड़ाः कफवातप्रकोपणाः। हृच्छिरोरुगज्वरस्तम्भ-तृष्णामूर्छाकराः स्मृताः॥ कण्डूनिस्तोदवैवण्यं सुप्तिक्लेदोपशोषणम् । विदाहरागरुक्पाकाः शोथा ग्रन्थिनिकुश्चनम् ॥ दंशावदरणं स्फोटाः कर्णिका मण्डलानि च । ज्वरश्च सविष लिङ्ग विपरीतञ्च निर्विषे॥ तत्र सर्वे यथादोषं प्रयोज्याः स्युरुपक्रमाः। पूर्वोक्तविधिमन्यञ्च यथावद् वदतः शृणु ॥४७॥ गङ्गाधरः-स्यादित्यादि। उञ्चिङ्गिविषं यस्मात् त्रिदोषप्रकोपात् तथा धातृविपर्ययात् शारीरधातुगुणविपरीतगुणवात् शिरोऽभितापादिकृत् । वक्र वक्रीभावः शरीरस्य । अन्येऽपीत्यादि। एवंविधा उच्चिडिङ्गप्रकाराः कफवातप्रकोपणा व्याड़ा हृद्रोगादिकराः स्मृताः। सविषनिर्विषजन्तुलक्षणमाहकप्डित्यादि। कण्डादिज्वरान्तं सविषे प्राणिनि लिङ्गम्, निर्विषे दष्टे कण्डादिविपरीतं लिङ्गम्। तत्र चिकित्सामाह-तत्र सर्व स्मिन् सविषच्याइदष्टे यथादोषं चतुर्विशत्पुपक्रमेषु यो य उपक्रमो योग्यस्ते उपक्रमाः प्रयोज्याः स्युः । तत्र पूव्वोक्तं विधिमन्यश्च विधिं यथावद् वदतो मत्तः शृणु ॥४७॥ पक्रपाणि:-श्वा त्रिदोषेत्यादि-सविषकुक्कुरादिलक्षणं, अखैव च शुनस्त्रिदोषप्रकोपो भवति । केचित तु शिरोभितापत्वादि यथोक्तकुक्कुरे तद्दष्टे च भवतीति वदन्ति। विस्तरश्चास्य सुश्रुत एव । भन्येऽप्येवंविधेति-अन्येऽपि शृगालतरक्ष्वादयः एवं सन्तः कृच्छ रोगादिकरा भवन्तीत्यर्थः । उक्त हि सुश्रुते-'श्वभगालतरवृक्ष-व्याघ्रादीनां यदानिलः। श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ॥' इति । कडूनिस्तोद इत्यादिना सामान्येन सविषकोटादिदंशलिङ्ग अविषप्राणिदंशलिङ्गञ्चोच्यते। सर्व इति चतुर्विशतियथोक्तोपक्रमाः, पूर्वोक्तम् इत्यत्र वक्ष्यमाणचिकित्सितम, पूर्वोक्ते विधावपि अवस्थाविशेषविधायकतया कर्तव्या इत्यर्थः। यदा पूर्वोक्ता इति पाठः तदा उपक्रमा इत्यस्य विशेषणमेतत् ॥ ४७ ॥ • श्वा विदोषेति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy