________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१८
चरक-संहिता। [विचिकित्सितम् छदारोचकहल्लास-प्रसेकोत्क्लेशगौरवैः। सशैत्यमुखमाधुय्यविद्यात् श्लेष्माधिक विषम् ॥ ४४ ॥ खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके। स्वेदो नाडोपुलाकादप्रवृहणश्च विधिर्हितः॥ सुशोतैः स्तम्भयेत् सेकैः प्रदेहश्चापि पैत्तिकम् । लेखनच्छेदनस्वेद-वमनैः श्लैष्मिकं जयेत् ॥ विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च। अवृश्चिकोचडिङ्गेषु प्रायः शीतो विधिः स्मृतः ॥ ४५ ॥ वृश्चिके स्वेदमभ्य घृतेन लवणेन च।। सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानश्च सर्पिषः॥ एतदेवोच्चडिङ्गेषु प्रतिलोमञ्च पांशुभिः।
उद्वर्त्तनं सुखाम्बुष्णैस्तथावच्छादनं घनैः॥ ४६॥ कीटविणे संज्ञानाशादि लिङ्गं स्यात् । छर्दीत्यादि। छKग्रादिभिलिङ्गैः श्लेष्माधिक विषं कणभादिदष्टं विद्यात् ॥४४॥
गङ्गाधरः-तेषां क्रमेणौषधमाह-खाडेनेत्यादि। खाडं गुड़मध्ये स्वयंजातदृढ़रूपम् । नाड़ी कुष्माण्डनालादिका। पुलाकस्तुच्छधान्यम् । सुशीतरित्यादि। सुशीतसेकप्रदेहः पैत्तिकं जयेत्। लेखनादिभिः श्लैष्मिकं जयेत्। विषे. वित्यादि। वृश्चिकोचडिङ्गविषवलेषु सर्वेषु विषेषष्णतीक्ष्णवात् सव्वस्थानगतेषु च प्रायः शीतो विधिः स्मृतः॥४५॥ । गङ्गाधरः-वृश्चिक इत्यादि। वृश्चिकोच्चडिङ्गविषयोर्वातोल्बणखात् वृश्चिके विषे स्वेदाभ्यङ्गं घृतेन लवणेन च उष्णान् सेकान् प्रयुञ्जीत भोज्यं चोष्णं प्रयुञ्जीत सर्पिषः पानश्च। एतदित्यादि। एतदेव विधानमुच्चडिङ्गेषु कार्यम् । पांशुभिः प्रतिलोमश्च उद्वर्त्तनम् । तथा सुखाम्बूषणः सुखाम्बुना उष्णीकृत
नैराच्छादनैरवच्छादनं कार्यम् ॥४६॥ रित्यादिना औषधैः । विषगताधिकवातादिलिङ्गमाह-हृत्पीड़ेति । वातादिभेदेन चिकित्सामाहमण्डेनेत्यादि। पुलाकस्तुच्छधान्यम् । घनैरिति पांशुभिः॥ ४३-४६॥ .
For Private and Personal Use Only