________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः
चिकित्सितस्थानम्। ३२१७ वारिविप्रहताः क्षोणा भोता नकुलनिजिताः। मुक्तत्वचो वृद्धबालाः सर्पा मन्द विषाः स्मृताः॥४१॥ सर्चदेहाश्रितं क्रोधाद् विषं सो विमुञ्चति।। तदेवाहारहेतोर्वा भयाद् वा न प्रमुञ्चति ॥ ४२ ॥ . प्रायो वातोल्बणविषा उचिङ्गिाः सवृश्चिकाः। वातपित्तोल्बणाः कोटाः श्लैष्मिकाः कणभादयः॥ यस्य यस्य तु दोषस्य लिङ्गाधिक्यं प्रतयेत् । तस्य तस्यौषधैः कुर्यात् विपरीतगुणैः क्रियाम् ॥४३॥ हृत्पीडो निलः स्तम्भः सिरायामोऽस्थिपर्खरुक। घूर्णनोद्वष्टनं गात्रे श्यावता वातिके विषे ॥ संज्ञानाशोष्णनिश्वासौ हृदाहः कटुकास्यता।
दंशावदरणं शोथा रक्तपित्तश्च पैत्तिके॥ प्राणाल्पमल्पबलं तदा न वर्द्धते। वारीत्यादि। वारिबाहुल्येन महताः सर्पाः क्षीणा व्याध्यनाहारादिना क्षीणा भीता विरोधिपक्षिदावान्यादिभ्यो भीता नकुलनिर्जिता एवं मुक्तखचो मुक्तनिम्मोकास्तथा वृद्धा बालाश्च सपाः मन्दविषाः स्मृताः॥४१॥ __ गङ्गाधरः-सव्वेत्यादि। शुक्रवत् सर्चदेहगतं विषं सर्पः क्रोधाद दंष्ट्राखागतं विमुञ्चति। तदेव विषमाहारहेतोने मुञ्चति भयाद वा न मुश्चति ॥४२॥ __ गङ्गाधरः-माय इत्यादि। उच्चिडिङ्गा वृश्चिकाच पायो वातोल्बणविषाः । कीटास्तु वातपित्तोल्बणाः। कणभादयः श्लैष्मिकाः। तेषां चिकित्सामाहयस्येत्यादि। यस्य यस्य सर्पादेर्य दोषस्य लिङ्गाधिक्यं प्रतकयेत्, तस्य तस्य दोषस्य विपरीतगुणैरौषधैः क्रियां कुर्यात् ॥४३॥
गङ्गाधरः तेषां वातादिविषलिङ्गमाह-हदित्यादि। वातिके वातोल्षणविषोच्चडिङ्गादिविष हृत्पीड़ादि लिङ्गम् । संक्षे त्यादि । पैत्तिके वातपित्तोल्बणप्रकृतिः शरहतुस्तु काल इति ज्ञेयम् । अल्पमन्यथेति भीतत्वादिविपर्यये अल्पं विषं भवति । वारीत्यादौ मन्दविषत्वमाह। प्रागुक्तं 'सर्वदेहाश्रितं क्रोधाद' इति सर्वदेहाश्रितमपि दंष्ट्रिष्वेव विषं विशेषेण ज्ञेयम् ॥ ४१ । ४२॥ चक्रपाणिः-विषचिकित्सार्थ वातोल्बणत्वादिभेदमाह-वातोल्बणेत्यादि। विपरीतयुगै
For Private and Personal Use Only