________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१६
चरक-संहिता। [विषचिकित्सितम् श्मशानचत्यवल्मोक-यज्ञाश्रमसुरालये। पक्षसन्धिषु मध्याहे साईरात्रेऽष्टमीषु च। न सिध्यन्ति नरा दष्टाः पाषण्डायतनेषु च ॥ दृष्टिश्वासमलस्पर्श-विषैराशीविषैस्तथा।। विनश्यन्ताप्रतिहता दष्टाः सव्र्वेषु मर्मसु ॥ ४०॥ येन केनापि सर्पण सम्भवः सर्व एव च। भीतमत्ताबलोषणक्षुत्तृष्णातें वर्द्धते भृशम् ।
विषं प्रकृतिकालौ चेत् तुल्यौ प्राणाल्पमन्यथा ॥ पष्टिकयोभक्तं क्षीरेणोष्णेन भोजयेत् । दिनत्रये पञ्चमे वा विधिरेषोऽर्द्धमात्रया। कर्तव्यो भिषजाऽवश्यमलर्क विषनाशनः। कुप्येत् स्वयं विषं यस्य न स जीवति मानवः। तस्मात् प्रकोपयेदाशु स्वयं यावन कुप्यति। वीजरत्नौषधीगर्भः कुम्भः शीताम्बुपूरितैः। स्नापयेत् तं नदीतीरे समन्त्रैर्वा चतुष्पथे। बलिं निवेद्य तत्रापि पिण्याकपललं दधि। माल्यानि च विचित्राणि मांसं पकामक तथा॥ अलकाधिपते यक्ष सारमेयगणाधिप। अलर्कजुष्टमेतन्मे निर्विषं कुरु मा चिरात् । दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः। अशुद्धस्य मुरूदेऽपि व्रणे कुप्यति तद् विषम् । श्वादयोऽभिहिता व्याला वातपित्तप्रकोपणाः। अतः करोति दष्टस्तैस्तेषां चेष्टां रुतं नरः। बहुशः प्रतिकुर्वाणो न चिरान म्रियते च सः॥ नखदन्तक्षतं व्यायेत् कृतं तद् विमई येत्। सिञ्चेत् तैलेन कोष्णेन ते हि वातप्रकोपणाः ॥” इति ॥ ३९॥ ___ गङ्गाधरः- श्मशानेत्यादि। श्मशानादिषु दष्टा न सिध्यन्ति। पाषण्डानां सन्यासिवेशधारिणामायतनेषु स्थानेषु । दृष्टिश्वासेत्यादि । दृष्टिविषादिभिराशीविषैश्च संपर्दष्टा न सिध्यन्ति। सर्वेषु मर्मसु दष्टाश्च विनश्यन्ति ॥४०॥
गङ्गाधरः-भीतेत्यादि। भीते जने मत्ते चावले व उष्णातें क्षुधा तृष्णातें च विषं भृशं वर्द्धते। विषमित्यादि । विषस्य प्रकृतिकाली चेत् तुल्यौ तथा विषं
चक्रपाणिः-सम्प्रति स्थानकालस्वभावप्रदेशे दष्टानां सर्पाणामसाध्यतामाह-श्मशानेत्यादि। चैत्यः ग्रामदेवताप्रायो महातरुः । पक्षसन्धिष्विति अमावास्यापौर्णमासीषु। पाषण्डाः कापालिकादयः। आशीविषविषैः इत्यस्यैव लक्षणं दृष्टिश्वासमलस्पर्शविषैरिति । उक्तं हि तन्त्रान्तरे-'दृष्टिश्वासादिभिहयाः सः आशीविषाः, आशुधातित्वात्" ॥ ४० ॥
चक्रपाणिः-विषवृद्धिहेतुमाह-भीतेत्यादि । प्रकृतिकालौ तुल्यौ यथा विषस्य प्रवरूक्ति
For Private and Personal Use Only