________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः
चिकित्सितस्थानम्। ३२१५ कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः। असाध्यकीटसदृशमसाध्यमशकक्षतम् ॥ सद्या प्रस्ताविणी श्यावा दाहमूच्छोज्वरान्विता।
पिड़का मक्षिकादशे तासान्तु स्थगिकाऽसुहृत् ॥ ३६ ॥ कण्डूमानित्यादि। मशकैदष्टे पुमान् कण्डूमान् ईपच्छोयो यस्य स ईपच्छोथः । तत्रासाध्यमशकक्षतमसाध्यकीटसदृशं स्यात्। पञ्चधा मशकाः सामुद्रः परिमण्डलो हस्तिमशकः कृष्णः पर्वतीयश्चेति। तत्र पर्वतीया असाध्या इति। सद्य इत्यादि। मक्षिका षड़ विधा तासां पञ्चविधाभिः स्थगिकावर्जाभिदंशे सद्यःस्राविणीप्रभृतिः पिड़का स्यात् । स्थगिका नाम मक्षिकाऽसुहृत् माणहृत् । मक्षिका तु कान्तारिका कृष्णा पिङ्गलिका मधुलिका काषायी स्थगिका चति । सुश्रुत चान्यच विषमुक्तम् । “शृगालश्वतरक्ष्क्ष-व्याघ्रादीनां यदानिलः। श्लेष्मप्रदुष्टो मुष्णाति संशां संशावहाश्रितः। तदा प्रसस्तलाल-हनुस्कन्धोऽतिलालवान् । अत्यर्थवधिरोधश्च सोऽन्योऽन्यमभिधावति। तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु। सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्यसक। दिग्धविद्धस्थ लिङ्गेन प्रायशश्चोपलक्षितः। येन चापि भवेद्दष्टस्तस्य चेष्टारुतं नरः। बहुशः प्रतिकुळणः क्रियाहीनो विनश्यति। दंष्ट्रिणा येन दष्टश्च तद् पं यदि पश्यति। अप्सु वा यदि वादश रिष्ट तस्य विनिर्दिशेत् ॥ त्रस्यत्यकस्माद् योऽभीक्ष्णं श्रुखा दृष्ट्वापि वा जलम्। जलवासन्तु विद्यात् तं रिष्टं तमपि कीर्तितम् ॥ अदष्टो वा जलवासी न कथञ्चन सिध्यति । प्रसुप्तोऽथोत्थितो वापि स्वस्थस्त्रस्तो न सिध्यति॥ विस्राव्य दंशं तैर्दष्टे सपिषा परिदाहितम् । प्रदिह्यादगदैः सर्पिः पुराणं वापि पाययेत् । अर्कक्षीरयुतश्चास्य दद्याच्छीर्ष. विरेचनम्। श्वेतां पुनर्नवाञ्चास्य दद्याद धुस्तूरकायुताम्। पललं तिलतैलञ्च रूपिकायाः पयो गुड़ः। निहन्ति विषमालक मेघद्वन्दमिवानिलः॥ मूलस्य शरपुवायाः कर्ष धुरतूरकाढि कम्। तण्डुलोदकमादाय पेपयेत् तण्डुलैः सह । उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत्। खावेदौषधकाले तद अलकेविषदूषितः।। करोत्यन्यान् विकारांस्तु तस्मिन् जीय॑ति चौषधे। विकाराः शिशिरे याप्या गृहे वारिविवज्जिते। ततः शान्तविकारस्तु स्नाला चैवापरेऽहनि। शालिशरणमाहुः। शतपदी कारुण्डा। असाध्यमशकक्षतमिति पञ्चसु मशकेषु पर्वतीयमशकक्षतमसाध्यमाहुः। उक्तं हि सुश्र ते “पद्धतीयस्तु कीटैःप्राणहरैस्तुल्यलक्षणः।" स्थगिका असुहृत् इति कान्तारिकादिषु सुश्रतोक्तषण्मक्षिकासु स्थगिकाख्या मक्षिका प्राणहरीत्यर्थः ॥ ३९ ॥
For Private and Personal Use Only