________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१४
चरक-संहिता। [विषचिकित्सितम् दष्टोऽसाध्यस्तु हृद्घाण-रसनोपहतो नरः। मांसः पतद्भिरत्यर्थ वेदनात्तों जहात्यसून् । विसर्पः श्वयथः शूलं ज्वरछदि स्थापि च । लक्षणं कणभैर्दष्टे दंशश्चैव विशोर्यते॥ हृष्टरोमोच्चडिङ्गन स्तब्धलिङ्गो भृशार्त्तिमान् । दष्टः शीतोदकेनैव सिक्तान्यङ्गानि मन्यते ॥ एकदंष्ट्रार्दितः शूनः सपीत: सरुजस्तथा। छर्दिनिद्रा च सविषैमण्डूकर्दष्टलक्षणम् ॥ मत्स्यास्तु सविषाः कुर्य्यर्दाहशोथरुजस्तथा। कण्डूं शोथं ज्वरं मूच्छों सविषास्तु जलौकसः ।। विदाहं श्वय, तोदं स्वेदन्तु गृहगोधिका । दंशे स्वेदं रुजं दाहं कुर्य्याच्छतपदीविषम् ॥ असाध्यवृश्चिकदष्टलक्षणमाह-दष्ट इत्यादि। वृश्चिकैदष्टोऽसाध्यस्तु हदि घाणे रसनायां वोपहतो नरः पतद्भिमांसरत्यर्थ वेदनातः सन्नसून् जहाति। बिसर्प इत्यादि। कणभैभ्र मरविशेषैर्दष्टे विसर्पादीनि स्युर्दशश्च विशीर्यत इति लक्षणम् । हृष्टेत्यादि। उच्चडिङ्गेन दष्टः पुमान् हष्टरोमादिः सन् शीतोदकेन सिक्तानीवाङ्गानि मन्यते। एकेत्यादि। सविर्मण्डूकैर्दष्टस्य लक्षणं एकदंष्ट्रार्पितो दंशः स्याच्छूनश्च सपीतः सरुजश्थ, छर्दिश्च निद्रा च भवति । मत्स्या इत्यादि । सविषा मत्स्या दष्टवन्तो दाहादीनि कुयुः। जलौकसरतु सविषाःकण्डादिकं कुय्य॒स्तत्र मुश्रुतोक्तविशेषः प्राग दर्शितः। विदाहमित्यादि। गृहगोधिका विदाहादीनि कुयात्। शतपदीविषं दंशे स्वेदादीनि कुर्यात् । प्रपञ्चो न क्रियते । आ दंशादित्यादि आखुविषलक्षणम् । कणभश्च कीटविशेष इति सुश्रुते कीटविशेषे पठितः। एकदंष्ट्रादित इति एकया एव दंष्ट्रया कृतो दंश इत्यर्थः। अस्थिसाराविषा उता जलौकाश्च, षट्पदा य उक्ताः संदंशविषाः। गलगोलिका ज्येष्ठामित्याहुः। अन्ये तु
For Private and Personal Use Only