________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः ]
चिकित्सितस्थानम् ।
सर्व्वासामेव तासाञ्च दंशे लक्षणमुच्यते । शोफः श्वेता सिता रक्ता पीता वा पिड़का ज्वरः । प्राणान्तको भवेद दाहः श्वासहिकाशिरोग्रहाः ॥
दंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः । रोमहर्षश्च दाहश्चाप्याखुषीविषार्दिते ॥ मूर्च्छाङ्गशोथवैवर्ण्य-क्लेदशब्दाश्रुतिज्वराः । शिरोगुरुत्वं लालास्छर्दि श्वासाध्यमूषिकैः ॥ काय यावत्वमथवा नानावर्णत्वमेव च । मोहोऽथ वर्चसो भेदो दष्टे स्यात् कृकलासकैः ॥ दहत्यग्निरिवाद भिनत्तीवोद्ध माशु च । वृश्चिकस्य विषं याति दंशे पश्चात् तु तिष्ठति ॥ षोड़शविधा लूतास्तासामष्टौ कृच्छ्रसाध्या दूषीविषाख्या इह तन्त्रे, शेषा असाध्याः प्राणहरास्तत्र आद्या अष्टौ त्रिमण्डला श्वेता कपिला पीतिका आलविषा मूत्रविषा रक्ता कसना चेति कृच्छ्रसाध्या आभिर्दष्टमिति निर्दिशेत् । शेषास्त्वष्टौ सुश्रुतोक्ताः प्राग् दर्शिताः । शोफ इत्यादिना तासां लक्षणमाह - दंशमध्ये शोफः श्वेतादिः पिड़का रथ दाहादिश्च प्राणान्तके लूतादष्टे भवेत् । माणान्तकलता अष्टौ । सौवर्णका लाजवर्णा जालिनी एणीपदी कृष्णा अग्निवर्णा काकाण्डा मालागुणा चेति ।
For Private and Personal Use Only
३२१३
मूषिकदष्टमाह - दंशादित्यादि । आखुविषार्दिते आ दंशात् सर्व्वत्र पाण्डुवर्ण शोणितं भवति मण्डलादीनि च भवन्ति । अष्टादश मूषिकाः सुश्रुतोक्ता दर्शितास्तेषामेतानि लक्षणानि आखूनां येषां दष्टे भवन्ति त आखवो दूषीविषा उच्यन्ते । येषु वक्ष्यमाणलक्षणानि स्युस्तेऽसाध्यमूषिका उच्यन्ते । मूच्छेत्यादीन्यसाध्यमूषिकर्देष्टलक्षणानि भवन्ति शुक्रविषा भूषिकाः । कामित्यादि । कृकलासकँदैष्टे काव्यादीनि भवन्ति । वृश्चिकदष्टलक्षणमाह- दहतीत्यादि । वृश्चिकस्य विषमादौ दशनमात्रेऽग्निरिव दहति । आशु च ऊर्द्ध भिनत्तीव याति, पश्चाद् दंशे तिष्ठति । असाध्याश्चाष्टौ त्रिमण्डलाः सौवर्णिकादय उक्तास्तथा दूषिकत्वात् कण्टकवृश्चिक मण्डूकमत्स्यजलौकाशतपदीमशक मक्षिकाणां सुभूतादिषु प्रपञ्चार्थिभिः प्रपञ्चोऽनुसरणीयः । इह तु तन्वकारेण
४०३