________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१२
चरक-संहिता। [विषचिकित्सितम् सर्पाणामेव विगमूत्रात् कीटाः स्युः कीटसम्मताः। दूषीविषाः प्राणहरा इति सङ्कपतो मताः॥ गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकायुतम् । सकराडूरागवीसर्प-पाकि स्यात् कुथितं तथा ॥ कीटैर्दषोविषैर्दष्टं लिङ्ग प्राणहरं शृणु। सर्पदष्टे तथा शोथो वद्धते सोयगन्धासक् ॥ दंशेऽक्षिगौरवं मूर्छा स रुगातः श्वसित्यपि । तृष्णारुचिपरीतश्च भवेद् दृषोविषादितः ॥ ३८॥ दंशमध्ये तु यत् कृष्णं श्यावं वा जालकान्वितम् । दद्राकृति भृशं पाक-क्लेदकोथज्वन्वितम् । दृषीविषाभिलताभिस्तं दमिति निर्दिशेत् ॥ गङ्गाधरः-सपानुक्त्वा काटानाह–सपाणामित्यादि। सर्पाणामेव विष्मूत्रात् ये कीटाः स्युस्ते कीटा दूषीविषाः प्राणहरा इति द्विविधाः सविषकीटतया सम्मता इति सङ्घ पतः कीटा मताः, विस्तरस्त्वेषां सुश्रुतोक्तो दर्शितः प्राक् । तत्र दृषीविषकीटदष्टलक्षणमाह-गात्रमित्यादि। दृषीविषैः कीदष्टं गात्रं दष्टप्रदेशरूपं गात्रं रक्तादिकं स्यात् । प्राणहरं कीटं लिङ्गैः शृणु। प्राणहरकीटलक्षणमाह-सर्पदष्टे यथा शोथस्तथा प्राणहरकीटदष्टे शोफ उग्रगन्ध्यमृग वढेते। दृषीविषकीटदंशलक्षणमुक्तम्, तदहितपुरुषलक्षणमाह-दंशेऽक्षीत्यादि। दृषीविषकीटदंशेऽक्षिगोरवं मूर्छा च स्यात् । स दूषीविषकीटादितः पुरुषो रुगाः सन् श्वसित्यपि तृष्णारुचिपरीतश्च भवेदिति ॥३८॥
गङ्गाधरः-दृषीविषकीटविशेषदष्टललणमाह-दंशमध्ये वित्यादि। यस्य सो दंशमध्ये कृष्णादि स्यात् तं दृषीविषाख्यलताभिदेष्टमिति निहिशेत् ।
चक्रपाणिः-कीटोत्पत्तिमाह-सर्पाणामित्यादि। कीटशब्दनिरुत्यर्थमनयोरुपादानम्, तेन भन्यान्यपि कीटकारणानि भवन्तीति ज्ञेयम् । उक्तं हि सुश्रुते-'सर्पाणां शुक्रविष्मूलशवपूत्यण्डसम्भवाः। वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः' इति। कीटाश्च यद्यपि सुश्रुते वातपित्तकफसन्निपातकोपनाः कुम्भीनसादयः सप्तषष्टिः प्रतिपादिताः, तथापीह दूषीविषाः प्राणहरविषाः इति द्विविधाः। उप्रगन्ध्यसृक वर्द्धते इति उग्रगन्धिलोहितम् ॥ ३८ ॥ चक्रपाणिः-दंशस्य मध्य इत्यादिना दूषीविषलूतादष्टलक्षणम् । लूताश्च अन्यवाष्टौ साध्याः
For Private and Personal Use Only