________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः चिकित्सितस्थानम् ।
सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरासिता। पीता वामोत्तरा दंष्ट्रा रक्ता श्यावाधरोत्तरा ॥ यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात् । वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेविषम् ॥ एकद्वित्रिचतुर्वृद्धिर्विषभागोत्तरोत्तरा। सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः ॥३७॥ गङ्गाधरः-सर्पदंष्ट्रा इत्यादि। सर्पाणां चतस्रो दंष्ट्रा वृहद्दन्ता वत्तन्ते । तासां दंष्ट्रानां चतसृणां मध्येऽधरा वामा दंष्ट्रा अधस्ताद या सासिता कृष्णा। या चोत्तरा ऊर्दा वामा दंष्ट्रा सा पीता। दक्षिणा बधरा दंष्ट्रा रक्ता उत्तरा दक्षिणा दंष्ट्रा श्यावा भवति। यन्मात्र इत्यादि। गोबालात् गोः पुच्छकस्माबालात् सलिलोद्ध ताद यावन्मात्रो जलस्य बिन्दुः पतते अहेः सर्पस्य वामाघरदंष्ट्रायां तन्मात्रं विषं स्यात् । विषभागस्य उत्तरोत्तरदंष्ट्रायामेकद्वित्रिचतुद्धिः। तस्या एकस्या दंष्ट्राया एकभागस्तदूद्ध वामदंष्ट्रायां द्वौ भागौ तथाविधौ द्वौ बिन्दू दक्षिणायामधरदंष्ट्रायां त्रयो बिन्दव उत्तरायां चखारो विन्दव इति । सवर्णा इत्यादि। सपौ यया दंष्ट्रया दशति तया कुता दंशास्तदंष्ट्रायाः सवर्णाः स्युः। बहूत्तरविषा भृशा इति उत्तरोत्तरदंष्ट्रादंशा बहुविषा भृशाश्च भवन्ति ॥३७॥
चक्रपाणिः-सर्पदंष्ट्रा इत्यादिना दंष्ट्राभेदं दंशविशेषज्ञानार्थमाह। दंशयाधरोसरेति दक्षिणाधरा रक्ता दक्षिणोत्तरा तु श्यावा। एकद्विति चतुर्वृद्रिर्विषभागोत्तरोत्तरमिति एकद्वितिचतुरुपजातवृद्धिविषविभागे उत्तरोत्तरमिति वाक्यार्थः। सवर्णा यथास्वदंष्ट्रासमानवर्णाः । बहुत्तरविषा इति उत्तरोत्तरं बहुविषाः यथोत्तरं बहुविषाः। भृशा इति दुःखसाध्याः। दृष्यत्वमपि यथोत्तरं ज्ञेयम् । ननु पूर्व दीकरादीनां दंशस्य वर्णभेद उक्तः, इदानीन्तु दंष्ट्राभेदेन वर्णभेद उच्यते, तेन सर्वत्रैव दकिरादौ सर्ववर्णोपपत्तिः, ततः पूर्वोक्तदंशवर्णविरोधः। उकल भत्र वाथै आषाढवर्मणा - यत् तु दब्बोंकरमण्डली असितः पीतश्च वर्णतो दंश इति लक्षणेन। यस्मात् अनेकवर्णास्तु दंशाः। भत्रोच्यते दंष्ट्रानुकारिवर्णानाम् उल्लेखो दंशमानस्थिते विषे भवति। दळवींकरादिषु विहितो यः वर्णः स प्रविसृते विषे भवतीति अवस्थाभेदान विरोधः। उक्त परिहारवासिके 'दंशस्त्वतः वर्ण दोषजे विसृजेद्” इति ॥ ३७॥
For Private and Personal Use Only