SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२१० चरक संहिता | * व्यामिश्रलिङ्गैरेतैस्तु शण्डदष्टं वदेन्नरम् । इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीवनिदर्शनम् ॥ पाण्डुवक्तस्तु गर्भिण्या शूनोष्ठोऽप्यसितेचणः । जृम्भाक्रोधोपजिह्वार्त्तो लूतया रक्तमूत्रवान् ॥ सर्पों गौधेरको नाम गोधायाः स्याच्चतुष्पदः । कृष्णसर्पेण तुल्यः स्यान्नाना स्युमिश्रजातयः ॥ गूढसम्पादितं वृत्तं पीड़ितं लम्बितार्पितम् । सर्पितञ्च भृशावाधं दंशा येऽन्ये न ते भृशाः ॥ तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा । राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः ॥ ३६ ॥ Acharya Shri Kailassagarsuri Gyanmandir [विषचिकित्सितम् एभिर्विपक्ष: पुंसा दष्टो नरो मतः, ऊद्ध ह्ययं प्रेक्षते । न च स्वरहीनो भवति नच कम्पते । एतैर्व्यामिश्रलक्षणैस्तु ऊर्जाघोदृष्टिरीषत् स्वरभङ्गो यः स्यात् तं नरं शण्डदष्टं वदेत् । गर्भिण्या सर्ष्या दष्टो नरः पाण्डुवक्तः शुनौष्ठोऽसितेक्षणथ . स्यात् । (अथ कीटदष्टलक्षणमाह - जृम्भेत्यादि । १) लतया ( सुनया) दष्टो नरो जृम्भाद्यार्त्ती रक्तमूत्रवान् भवति । गौधेरको गोधाया जातश्चतुष्पदः सर्पो गौरको नाम, स कृष्णसर्पेण तुल्यः स्यात् । मिश्रजातयस्तु नानाविधाः स्युः । यद् दंशनं गूढ़सम्पादितं तद् भृशावाधं यच्च वृत्तं वत्तु लं लम्बितार्पितं लम्बिताकृतिदंशनं यच्च पीड़ितं यच्च सर्पितं तत् सर्व्वं भृशावाधं भृशमावाधं करोति । ये चान्ये दंशास्ते तु न भृशा न भृशवाधकाः । तरुणा इत्यादि । दर्व्वीकराः कृष्णसर्पास्तरुणा युवान आशीविषोपमा भवन्ति । गोनसा मण्डलिनः स्थविरा आशीविषोपमा भवन्ति । राजिमन्तस्तु वयोमध्ये यौवनादुत्तरवयस्काः प्रागवार्द्धक्याद आशीविषोपमा भृशा भवन्ति ॥ ३६ ॥ । For Private and Personal Use Only गूढसम्पादितमखावगाढं वृत्तम् ऊहूँ" परिवृत्तं पीड़ित मतिमासरुजाकरम् । लम्बितार्पितम् अर्पितसकलदंष्ट्रा प्राप्तलक्षणम् । वयोभेदेन दवकरादीनां तीव्रतामाह - तरुणा इत्यादि कृष्णसर्पा इति । गोनसाः इति मण्डलिनः । आशीविषोपमा इति दृष्टिनिश्वासविषोपमाः ॥ ३६ ॥ लूतयेत्यस सूतयेति बहुसम्मतः पाठः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy