________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०६
२३श अध्यायः चिकित्सितस्थानम्।
दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदोऽसितः। निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः॥ पृथर्पितः सशोफश्च दंशो मण्डलिभिः कृतः। पोताभः पीतरक्तश्च पित्तरक्तविकारकृत् ॥ राजिमद्भिः कृतो दंशः पिच्छिलः स्थिरशोफकृत् । स्निग्धः पाण्डुश्च सान्द्रासक श्लेष्मव्याधिसमीरणः ॥ ३५॥ वृत्तभोगो महाकायः श्वसन् ® ऊद्धेक्षणः पुमान् । समाङ्गः शिरसा स्थूलः स्त्रीत्वतः स्याद् विपर्य्ययात् ॥ क्लीवः स्रस्तस्त्वधोदृष्टिः खरहीनः प्रकम्पते।
स्त्रिया दष्टो विपर्यस्तरेभिः पंसा नरो मतः॥ कटु-रूक्षं वातकोपनम्, मण्डलिनां विषमम्लोष्णं पित्तकोपनम्, राजिमता विर्ष स्वादु-शीतलं श्लेष्मकोपनमिति ॥३४॥
गङ्गाधरः-तेषां दंशलक्षणान्याह-दर्तीकराणां दंष्ट्रापदो दंष्ट्राचिह्नमसितः निरुद्धरक्तश्च कूभि ऊद्ध मध्यदेशः वातव्याधिकरः। मण्डलिभिः कृतो दंशः पृथरूपेणार्पितः सशोफश्च पीताभः पीतरक्तवर्ण: पित्तरक्तविकारकृत् । राजिमद्भिः सर्पः कृतो दंशः पिच्छिलः स्थिरशोफत् स्निग्धश्च पाण्डुश्च सान्द्रासक्च श्लेष्मरोगसमीरणकृत् ॥३५॥ __गङ्गाधरः-वृत्तेत्यादि। यः सपो वृत्तभोगः सुदृश्यफणः महाकायश्च श्वसन् भवत्यर्द्ध क्षणः समाजः शिरसा स्थलः स्थलमस्तकः स पुमान् सपो शेयः। अतो विपय्येयात् असम्यगवृत्तभोगा अमहाकायाऽधोदर्शना अल्पं श्वसन्ती न च समाङ्गी अस्थूलमूर्द्धा च स्त्रीसी स्यात्। अत आभ्यां विपर्ययात् क्लीवः सर्पः। एषां मध्ये स्त्रिया दष्टो नरः सस्तो भ्रष्टगतिः स्वरहीनोऽधोदृष्टिः प्रकम्पते । मथा आतपे कटुकत्वं तद्वदिहापि, किंवा अव्यक्तदशायामेव अम्लकटुकादीनामधिकत्वं ज्ञेयम् । पृथ्वर्पित इति अवगाढ़दंष्ट्रापितः ॥ ३४ ॥ ३५॥
चक्रपाणिः-वृत्तभोगीत्यादिना सर्पाणां तीव्रविषज्ञानार्थं पुनर्भेदमाह। तत्कृतचिकित्साभेद इहानुकोऽपि तन्त्रान्तरे ज्ञेयः। तथाहि 'सावित्रे पच्यते रातो स्त्रियस्तीप्रविषाः सदा'। तथा 'नोदष्टो भिषजा कार्यः सूपचारस्त्वनारभे' इति। क्लीवो नपुसकः। स्वरहीन इत्यादि।
* सर्पन इति पाठान्तरम् ।
For Private and Personal Use Only