________________
Acharya Shri Ka
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०८ चरक-संहिता। [विषचिकित्सितम्
आदौ चामाशयगे वमनं त्वकस्थे प्रदेहसेकादि। कुर्यात् भिषक चिकित्सां दोषबलञ्चव हि समीक्ष्य ॥३३॥ इति मूलविषविशेषाः प्रोक्ताः शृणु जगमस्यातः । सविशेषचिकित्सितमेवादी तत्रोच्यते तु सर्पाणाम् ॥ दीकरा मण्डलिनो राजिमन्तस्तथैव च। सर्पा यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः॥ दीकरः फणी ज्ञ यो मण्डली मण्डलाः फणाः। बिन्दुलेखो हि चित्राङ्गः पन्नगः स्यात् स राजिमान् ॥ विशेषात् कटुकं रूक्षमम्लोष्णं स्वादु शीतलम् । विषं यथाक्रमं तेषां तस्माद वातादिकोपनम् ॥ ३४ ॥ गङ्गाधरः-तत्रादौ तज्जलमिश्रिते पीते विषेखामाशयगे वमनं भिषक दोषवलं समीक्ष्य चिकित्सां कुर्यात्। वस्थे विषे प्रदेहसेकादि चिकित्सां कुर्यात् । इति मूलविषविशेषाः प्रोक्ताः व्याख्याताः। अत ऊद्ध जङ्गमस्य विषस्य विशेषान् शृणु। सुश्रुते चोक्तम्। “युक्तसेनस्य नृपतेः परानभिजिगीषतः। भिषजा रक्षण कार्य यथ तदुपदेक्ष्यते। विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः । रक्षितव्यो विशेषेण विषादेव नराधिपः॥ पन्थानमुदकं छायां भक्तं यवसमिन्धनम् । दूषयन्त्यरयो यस्माज्जानीयाच्छोधयेत्तथा ॥ तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रचक्ष्यते ॥” इति ॥ ३३॥ __गङ्गाधरः-दीकरेत्यादि। दीकरादयस्त्रिविधाः सर्पा यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः। तत्र दर्वीकरो नाम सर्पः फणी फणावान् शीघ्रगामी शेयः। मण्डली मण्डलमस्य फणा मण्डला मण्डलाकारा मन्दगामी पृथुश्च स मण्डली सर्पः। यः पन्नगो बिन्दुलेखावान् चित्राङ्गश्च स्यात् स राजिमान् सपे उच्यते। यस्मात् तेषां दर्वीकरमण्डलिराजिमतां विषं विशेषाद यथाक्रम कटुक रूक्षमम्लोष्णं स्वादशीतलं तस्माद वातादिकोपनम् । दर्वीकराणां विषं
चक्रपाणिः-मण्डलीति मण्डलयुक्तम् । बिन्दुना लेखया च विचित्रम् अहं यस्य स स्था। दकिरादीनान्तु प्रपञ्चस्त्विह पराधिकारस्वेन न कृतः। विशेषादित्यादौ कटुक-रूक्षमधिकं दध्वीकराणाम्, अम्लोष्णं मण्डलीनाम्, स्वाइशीतं राजिमताम्. त्रिदोषकोपनत्वेन वातादिकोपमम् । विशेषादिह विषञ्च यद्यप्यम्यक्तरसमुक्त तथापीह कटुकादिरसविधानं अनुरसाभिप्रायेण शेयम् ।
For Private and Personal Use Only