________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श भध्यायः
३२०७
चिकित्सितस्थानम् । माल्यमगन्धं म्लायति शिरोरुजारोमहर्षकरम् । स्तम्भयति खानि नासामुपहन्त्यथ दर्शने धूमः॥ कूपतड़ागादिजलं दुर्गन्धं सकलुषं विवर्णश्च । पोतं श्वय) कोठान् पिड़काश्च करोति मरणश्च ॥ ३२ ॥
मेडमुष्केषु युक्तेषु स्फोटसम्भवः। तत्राभ्यङ्गवदेवेष्टा यातवाहनयोः क्रिया॥ शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च। भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् ॥ उपानत्पादपीठानि पादुकावत् प्रसादयेत् । भूषणानि हतार्ची षि न विभान्ति यथा पुरा। स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ॥” इति। माल्यमित्यादि। विषेण दुष्टं माल्यमगन्धं सत् म्लायति शिरोरुजादिकरश्च। सुश्रुते च। “शिरोऽभ्यङ्गः शिरस्त्राणं सानमुष्णीषमेव च। सजश्व विषसंसृष्टाः साधयेदनुलेपवत् ॥” इति। विषदुष्टो धूमः नासया पीतः खानि छिद्राणि स्तम्भयति। नासामुपहन्त्यथ दर्शने चक्षुषी उपहन्ति । मुश्रुते च। “शोणितागमनं खेभ्यः शिरोरुक कफसंस्रवः। नस्यधूमगते लिङ्गमिन्द्रियाणान्तु वैकृतम् ॥ तत्र दुग्गवादीनां सपिः सातिविषैः शृतम्। पाने नस्ये च सश्वेतं हितं समदयन्तिकम् ॥” इति। अन्यच्च । “गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् । जिघ्रतश्च शिरोदुःखं वारिपूर्ण च लोचने ॥ तत्र वाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ॥ मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः। पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते। सक्षौद्रश्च घृतं पानं प्रलेपचन्दनं घृतम्। पयस्या मधुकं पञ्जी बन्धुजीवपुनर्नवम् ॥ कर्णतेलगते श्रोत्र-वैगुण्यं शोफवेदने। कर्णस्रावश्च तत्राशु कर्त्तव्यं प्रतिपूरणम्। स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः। सोमवल्करसश्चापि सुशीतो हित इष्यते॥" इति। कूपेत्यादि। राशा स्वराष्ट्राक्रमनिवारणार्थ शत्रूणां स्वराज्ये कूपतड़ागादिजलं यदि विषयोगाद् दृषितं क्रियते अथवा शत्रुभिः क्रियत, तदा तज्जलं दुर्गन्धादि भवति। पीतश्च श्वयथुकोठादीनि करोति ॥३२॥
हत्या शीर्णः स्यात् । खायै रिति भोज्यैः। स्पृश्यरित्यभ्यङ्गादिभिः। माल्यमिति विषष्टं .. माल्यम् । नासामुपहन्तीति दर्शनमिति चक्षः ॥ ३१ ॥३२॥
For Private and Personal Use Only