________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०६
चरक-संहिता। [विषचिकित्सितम् दुष्टेऽञ्जनेऽनिदाहः स्रावोऽत्युपदेहशोथरागाश्च । आदेरादौ कोष्ठः स्पृश्यस्त्वग् दह्यते दुष्टः॥ स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टः। कगडर्तिकोठपिडकारोमोद्गमचिमिचिमाः शोफाः॥ एते च करचरणतोददाहलमाविपाकाश्च ।
भूपादुकाश्वगजचमकेतुशयनासनैर्दुष्टैः॥ कुर्चकस्तु दन्तकाष्ठगते विषे। जिहादन्तोष्ठमांसानां श्वयथुश्चोपजायते ॥" अथास्य धातकीपुष्पेत्याद्यौषधं जिह्वानिलेखकवले दर्शितम्। विषजुष्टेन द्रव्येण शिरोलेपने कृते केशच्युतिः शिरसि रुक् ग्रन्थयो जायन्ते कूर्चश्च विशीर्णः स्यात् । मुश्रुते च। “केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः। ग्रन्धिः जन्मोत्तमाङ्गेषु विषजुष्टे तु लेपने ॥” इति। दुष्टे इत्यादि। विषेण दुष्टेऽञ्जने नेत्रदत्तेऽक्षिदाहः। अक्ष्णोरेव स्रावचातिशयोपदेहशोथरागाः। सुश्रुते च । "अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः। अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि वा। तत्र सद्योघृतं पेयं तर्पणञ्च समागधम् । अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च। मुष्पकस्याजकर्णस्य फेनो गोपित्तसंयुतः। कपित्थमेषशृङ्गयोश्च पुष्पं भल्लातकस्य वा। एकैकं कारयेत् पुष्पं बन्धूकाङ्कोठयोरपि ॥” इति। अथ विषेण दुष्टरादाः खाद्यद्रव्यः खादितैरादौ कोष्ठो दह्यते । एवं विषेण दुष्टः स्पृश्यद्रव्यः स्पृष्टैरादौ खग दह्यते । इति । स्नानेत्यादि। विषेण दुष्टः स्नानादिभिव्यः स्नानादिषु कण्डूप्रभृतयः शोफाश्च स्थः। तदुक्तं मुश्रुते-"पिच्छिलो बहलोऽभ्यङ्गो विवौ वा विषान्वितः। स्फोटजन्म रुजा स्रावस्त्रपाकः स्वेदनं ज्वरः। दरणश्चापि मांसानामभ्यङ्गे विषसंयुते॥ तत्र शीताम्बु-सिक्तस्य कर्तव्यमनुलेपनम्। चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका। सोमवल्ल्यमृता श्वेता पद्म कालीयकं वचम् । कपित्थरसमूत्राभ्यां पानमेतच युज्यते। उत्सादने परीषेके कषाये चानुलेपने । शय्यावस्त्रतनुढेष शे यमभ्यङ्ग. लक्षणः॥” इति। एते चेत्यादि। राशो भूपादुकादिभिविषेण दुष्टैरेते च कण्डतिकोठपिड़कारोमोद्गमचिमचिमशोफाः करचरणतोदादयश्च स्युः। उक्तं मुश्रुते। “अस्वास्थ्यं कुञ्जरादीनां लालासावोऽक्षिरक्तता। स्फिकपायुविषदृष्टानामेव लक्षणं प्रकरणाज ज्ञेयम् । दन्तपवनस्य कूर्चः दन्तमलशोधनकूर्चः। विशीयंने
For Private and Personal Use Only