________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम् । ३२०५
आमाशयं प्रविष्टे वैवण्यं स्वेदसदनमुत्क्लेदः। दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम् ॥ पक्वाशयन्तु याते मूर्छामददाहमोहबलनाशाः। तन्द्रा कार्शप्रञ्च विषे पाण्डुत्वञ्चोदरस्थे स्यात् ॥ ३१ ॥ दन्तौष्ठमांसशोफाः शीर्य्यन्ते दन्तपवने कूर्चास्तु।
केशच्युतिः शिरोरुक् ग्रन्थयो विशीर्णश्च कूर्चः स्यात् ॥ शिरीषमाषका वापि सक्षौद्राः प्रतिसारणम् ।।” इति। आमाशयमित्यादि । प्रमादान्मोहाद वा यदि विषजुष्टमन्न सेवते तदा तस्यामाशयं प्रविष्टे विषे ववादयः, दृष्टिहृदयरोधश्च। विन्दुरूपस्फोटशतैरङ्गमुपचीयते। सुश्रुते चान्यत् । “स चेत् प्रमादान्मोहाद वा तदनमुपसेवते। अष्ठीलावत् ततो जिह्वा भवत्यरसवेदिनी। तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते । तत्र वाष्पेरितं कर्म यच्च स्याद् दान्तकाष्ठिकम्। मूर्छा छदिमतीसारमाध्मानं दाहवेपथू। इन्द्रियाणाश्च वैकृत्यं कुर्यादामाशयं गतम्। तत्राशु मदनालावू-विम्बीकोषातकीफलैः। छईनं दध्युदश्विभ्यामथवा तण्डुला म्बुना॥ उपक्षिप्तस्य चान्नस्य वाष्पेणोड़ प्रसर्पता। हृत्पीड़ा भ्रान्तनेत्रत्वं शिरोदुःखश्च जायते। तत्र नस्याञ्जने कुष्ठं रामठं नलदं मधु । कुर्य्याच्छिरीषरजनी-चन्दनैश्च प्रलेपनम्। हृदि चन्दनलेपन्तु तथा सुखमवाप्नुयात् ॥” इति । पकाशयन्वित्यादि। मोहात् प्रमादात् सविषानभक्षणात् पकाशयं याते विषे मूर्छादयः स्युः। उदरस्थे विषे तन्द्रा कार्य पाण्डुबञ्चेति। उदर. गतमात्रे आमाशयगतं नोच्यते। अत्र सुश्रुते च। “दाहं मूर्छामतीसारं नृणामिन्द्रियवैकृतम्। आटोपं पाण्डुतां काश्यं कुर्यात् पकाशयं गतम् ॥ विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम्। दना दूषीविषारिश्च पेयो वा मधुसंयुतः॥” इति ॥३१॥
गङ्गाधरः-दन्तोष्ठेत्यादि। दन्तकाष्ठगते विषे दन्तोष्ठमांसशोफः । दन्तपवने कूर्चाश्च शीर्य्यन्ते। कूर्चाः कूँचीति लोके । उक्तं सुश्रुते । “विशीर्यते चक्रपाणिः-मुखेत्यादिना मुखसम्बन्धे विषलक्षणम्। दन्तेत्यादिना दन्तधावनकूर्चादीनां
For Private and Personal Use Only