SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । विचिकित्सितम् ३२०४ चरक-संहिता। पाने नीला राजी वैवण्य वाञ्च नेक्षते च्छायाम् । विकृतामथवा पश्यति लवणाक्ते फेनमाला स्यात् ॥ ३०॥ पानान्नयोः सविषयोर्गन्धेन शिरोरुजा हृदि च मूर्छा च । स्पशेन पाणिशोथः सुप्त्यालदाहतोदनखभेदाः॥ मुखताल्वोष्ठचिमिचिमा जिह्वा शूनवती जड़ा विवर्णा च। द्विजहर्षहनुस्तम्भास्यदाहनानागलविकाराः॥ गङ्गाधरः-पान इत्यादि। पाने पानीयजलादिद्रव्ये सविषे नीला राजी स्यात्, तत्पानीयस्य वैवय॑श्च स्यात्, तत्र पानीये द्रव्ये पुमान् खां छायाश्च नेक्षते, अथ यदि पश्यति तदा विकृतां छायां छिद्रादिमती पश्यति। लवणाक्ते विषे फेनमाला फेनसमूहः स्यादिति। सुश्रुते चोक्तम् । “द्रवद्रव्येषु सर्वेषु क्षीरमधोदकादिषु। भवन्ति विविधा राज्यः फेनवुवुदजन्म च॥ छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः। भवन्ति यमलाश्छिनास्तन्व्यो वा विकृतास्तथा ॥ शाकसूपान्नमांसानि क्लिन्नानि विरसानि च। सद्यः पर्युषितानीव विगन्धानि भवन्ति च ॥ गन्धवर्णरसहीनाः सर्वे भक्ष्याः फलानि च । पकान्याशु विशीय॑न्ते पाकमामानि यान्ति च ॥” इति ॥३०॥ गङ्गाधरः-पानान्नयोरित्यादि। सविषयोः पानानयोर्गन्धेन शिरोरुजा हृदये च रुजा स्यात्। मूर्छा च भवति। स्पर्शन तयोः सविषपानानयोः पाणिभ्यां संस्पर्श पाणिशोथः पाणिसुप्तिः स्पर्शाज्ञानं अङ्गुलिदाहतोदौ नखभेदश्च । सुश्रुते च। “पाणिमाप्त पाणिदाहं नखशातं करोति च। अत्र प्रलेपः श्यामेन्द्र-गोपासोमोत्पलानि च ॥” मुखेत्यादि। विषजष्टेन द्रव्येण जिह्वानिलेखने कवले वा कृते मुखादिषु चिमिचिमा स्यात् । जिहा तु शूनवती शोफयुता जड़ा विवर्णा च भवति। द्विजानां दन्तानां हो हनुस्तम्भ आस्यदाहो नानागलविकारश्व। सुश्रुते च। “जिह्वानिलेखकबलो दन्तकाष्ठवदादिशेत् । अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः । सक्षौद्रैः मच्छिते शोफे कर्त्तव्यं प्रतिसारणम् । अथवाकोठमूलानि बधः सप्तच्छदस्य च । ... चक्रपाणिः-पान इति मद्यादौ पेये। छायामिति प्रतिबिम्बम्। लवणाक्ते इति पानविशेषणम् ॥ ३०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy