SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसायनपाद ४ २३२८ चरक-संहिता। पञ्चदशपर्णः सोम इव हीयते च वर्द्धते च। पद्मा नामौषधिः प्रमाणा वा विशे याजगरी बुधैः। दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे ॥” इति । सोमेत्यादि । सुश्रुतेऽपुक्तः । “ब्रह्मादयोऽसजन पूर्चममृतं सोमसंज्ञितम् । जरामृत्युविनाशाय विधानं तस्य वक्ष्यते। एक एव खलु भगवान सोमः स्थाननगमाकृतिवीर्यविशेषश्चतुर्विंशतिधा भिद्यते। तद् यथा-"अंशुमान मुञ्जवांइचैव चन्द्रमा राजतप्रभः। दृळसोमः कनीयांश्च श्वेताक्षः कनकप्रभः । प्रतानवांस्तालवृन्तः करवीरोऽशुमानपि। स्वयंप्रभो महासोमो यश्चापि गरुडाहतः। गायत्रास्त्रैष्टुभः पातो जागतः शाङ्करस्तथा। अग्निष्टोमो रवतश्च यथोक्त इति संज्ञितः। गायत्रास्त्रिपदा युक्तो यश्चोड़पतिरुच्यते। एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः। सर्वेषामेव चैतेषागेको विधिरुपासने। सङ्घ तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते” । इति । पञ्चदशपर्ण इति । ननु पञ्चदशपत्रवान् सन् किं सर्वदैव वत्तते न वेत्यत आह-सोम इत्यादि। सोम इव चन्द्र इव कृष्णपक्षे प्रतिपदादिषु एकैकतिथिषु उत्तरोत्तरमेकैककलया यथा चन्द्रो हीयते तथा पञ्चदशपर्णः सोमोनामौषधिराजः कृष्णपक्षे प्रतिपदादितिथिष्वेकैकपत्रेणोत्तरोत्तरं हीयते। तथा शुक्लपक्षे वर्तते चन्द्र इवेति बोध्यम् । सुश्रुते चोक्तं-“सर्वेषामेव सोमानां पत्राणि दश पञ्च च। तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च। एकैकं जायते पत्रं सोमस्याहरहस्तदा । शुक्लस्य पौर्णमास्यान्तु भवेत् पञ्चदशच्छदः। शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः। कृष्णपक्षक्षये चापि लता भवति केवला। अंशुमानाज्यगन्धस्तु कन्दवान् राजतप्रभः। कदल्याकारकन्दस्तु मुञ्जवानसमच्छदः। चन्द्रमाः कनकाभासो जले चरति सर्वदा। गरुडाहतनामा च श्वेताक्षश्चापि पाण्डुरौ । सार्पनिौकसदृशौ तौ वृक्षाग्रावलम्बिनौ । तथान्यैर्मण्डलैश्वित्रैश्चित्रिता इव भान्ति ते। सर्च एव तु विशे याः सोमाः पञ्चदशच्छदाः। क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः। हिमवत्यर्बुदे सह्य माहेन्द्र मलये तथा। श्रीपते देवगिरौ गिरौ देवसहे तथा। पारिपात्रे च विन्ध्ये च देवसुन्दै इदे तथा। उत्तरेण वितस्तायाः ज्ञायते न लौकिकैलॊकाप्रसिद्धत्वात्। सोम इव वर्द्धते हीयत इति यथा सोमवृद्धिक्षयौ तथ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy