________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः] चिकित्सितस्थानम्। २३२७ सम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्च परान् भावान् आवहन्ति सिद्धाः ॥५॥
इतीन्द्रोक्तं रसायनम् । ब्रह्मसुवर्चला नामोषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा। आदित्यपर्णी नामौषधिर्या सूर्यकान्तेति विज्ञायते सुवर्णक्षीरा सूर्य्यमण्डलाकारपुष्पा। नारी नामौषधिरश्वबलेति विज्ञायते या पुनरजसदृशपत्रा +। काष्ठगोधा नामौषधिः गोधाकारा । सर्या नामौषधिः सकारा। सोमो नामौषधिराजः रोदनाशनेन प्रातयथावलं कल्किताश्चर्णिता वा पयसा गव्यदुग्धेन प्रयुक्ताः पण्मासात् इत्यादिकान अपरान् भावानावहन्ति । सिद्धाः सिद्धफलखात् ॥५॥
गङ्गाधरः-अपराणां महौषधीनां महाफलानां योगान् आह-ब्रह्मेत्यादि । हिरण्यक्षीरा सुवर्णवर्णक्षीरा, पुष्करसदृशपत्रा पद्मपत्रसदृशपत्रा। सुश्रुतेऽप्युक्तं"कनकाभा जलान्तेषु सर्वतः परिसर्पति । सक्षीरा पद्मिनीपख्या देवी ब्रह्मसुवर्चला। देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे। दृश्यते च जलान्तेषु मध्ये ब्रह्मसुवर्चला।” इति। मूर्यकान्ता नाम लोके । सुश्रुतेऽप्युक्तं-"मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः । आदित्यपर्णिनी शे या सदादित्यानुवत्तिनी। आदित्यपर्णिनी शे या तत्रैव हि हिमक्षये ॥” इति । तत्रैवेति देवसुन्दे हदवरे तथा सिन्धौ महानदे। हिमक्षये वसन्तादौ। नारीत्यादि। अश्वबलेति नाम लोके अजसदृशपत्रा यावद्भिः पत्रैर्भवति । तदुक्तं सुश्रुते च-“कान्तैदशभिः पत्रमयराङ्गरुहोपमैः । कन्दजा काञ्चनक्षीरा कन्या नाम महौषधिः। काश्मीरे तु सरो दिव्यं नाना क्षुद्रकमानसम्। करेणुस्तत्र कन्या च च्छत्रातिच्छत्रके तथा।” काष्ठेत्यादि । गोधाकारा। गोधा जन्तुविशेषः । सर्पा नामौषधिः सर्पाकारा। सुश्रुते तु अजगरीत्युक्ता । तद् यथा-"मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी । पञ्चारनि
चक्रपाणिः-ब्रह्मसुवर्चलाप्रभृतयोऽस्रोक्तलक्षणा दिव्योषधयो नातिप्रसिद्धाः। आदित्यपर्ण सू-वर्तमेव देशविशेषजातं केचिद् वयन्ति,। अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना
___ * स्वरवर्णसम्पदाम् इति वा पाठः।
+ वल्वजसदृश पवा इति वा पाठः।
For Private and Personal Use Only