SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३२६ चरक संहिता । [ रसायनपाद ४ अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः संक्रमय्योवाचैतत् सर्व्वम् अनुष्ठेयम् । अयञ्च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवतः प्रभावात् प्राप्तवीर्याः ॥ ४ ॥ तद् यथा - ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी विदारी जीवन्ती पुनर्नवा नागबला स्थिरा वचा च्छत्रातिच्छत्रा मेदा महामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः । पण्मासात् परममायुर्वयश्च तरुणमनामयत्वं स्वरवर्ण Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधरः --- अथेन्द्र इत्यादि । संक्रमय्य सम्यकक्रमात् ॥ ४ ॥ गङ्गाधरः - ऐन्द्रीत्यादि । ऐन्द्री गोरक्षकर्कटी । ब्राह्मी शाकविशेषः स्वनामख्याता । पयस्या क्षीरकाकोली । क्षीरपुष्पी स्वनामख्याता । श्रावणी महाश्रावणी अनयोर्लक्षणं सुश्रते "श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा । अनिमात्रक्षपका पलसम्मितैः । पुष्पैर्नीलोत्पलाकारैः फलैचाञ्जनसन्निभैः । श्रावणी महती ज्ञेया कनकाभा पयस्विनी । गोलोमी चाजलोमी च महती श्रावणी तथा । वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते ॥” इति । शतावरी शतसूली | विदारी क्षीरविदारी । जीवन्ती शाकविशेषः । पुनर्नवा रक्ता श्वेता तु वर्षाभूः । नागबला गोरक्षतण्डुला | स्थिरा शालपर्णी । वचा हैमवती वान्या वा । छत्रा अतिच्छत्रा च सुश्रुतेनोक्ता -- “छत्रातिच्छत्रके विद्याद् रक्षोघ्ने कन्दसम्भवे । जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते ॥” इति । श्वेतकापोतिसम संस्थानाकृतिमाना। मेदा महामेदा जीवनीयाश्चान्या ओषधय इति जीवकर्षभककाकोलीमुद्गपर्णीमापपर्णीयष्टीमधुकानीति पट् । मेदामहामेदाक्षीरकाकोलीजीवन्तीनां चतसृणामोषधीनां जीवनीयान्तर्गतानामुक्तत्वात् । एता ओषधयः प्रत्येकं सुश्रुतदर्शनात् शुद्धतनुना कुटीप्रविष्टेन क्षीरसपि चक्रपाणि: - यद्यपि च ऋषिर्भरद्वाजद्वारापि इन्द्रादधिगतायुर्वेदः, तथापि ग्रामवासकृतमनो ग्लान्या न तथा स्फुटार्थो वर्त्तत इति शङ्कया पुनरिन्द्रस्तमुपदिशति । महाश्रावण अलम्बुषा शीतपुष्पा | अतिच्छता मधुरिका ॥ ४ ॥ ५ ॥ * हिमवत् प्रभवाः इति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy