SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः चिकित्सितस्थानम्। રરૂર प्रजानाञ्चानुग्रहार्थमायुवेदमश्विनौ मह्य प्रायच्छतां, प्रजापतिः अश्विभ्यां,प्रजापतये ब्रह्मा । प्रजानामल्पमायुर्जराव्याधिबहुलम् असुखमसुखानुबन्धम, अल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयं मत्वा, पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमर्जस्करम् अमृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हन्तुापधारयितु प्रकाशयितुं प्रजानुग्रहार्थम् । आषं ब्रह्म च + मैत्री कारुण्यम् आत्मनश्चानुत्तमं पुण्यमुदारं, ब्राह्ममनयं कर्मेति। तत् श्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः प्रहृष्टास्तद्वचनमभिननन्दुश्चेति ॥३॥ ननु कस्माद् ब्रह्मा प्रजापतये प्रायच्छत् प्रजापतिरश्विभ्यामश्विनौ मह्य पायच्छतामिति चेत् तत्राह-ब्रह्मर्षीणामात्मनः प्रजानाञ्च ग्रामवासिनामनुग्रहार्थमायुर्वेदं प्रायच्छताम् । किमर्थ प्रजानामित्यत आह-प्रजाना मित्यादि। प्रजानामल्पमायुस्तच्च जराव्याधिवहुलमसुख दुःखम् असुखानुबन्धं दुःखानुवन्धञ्च तस्य चाल्पखात् अल्पतपोदानादिसञ्चयं मला पायच्छदिति पूर्वणान्वयः। एवं परेण चान्वयः। तथा च प्रजानामल्पमायुरित्यादि मखा पुण्यतममित्यादिकमायुर्वेदं भवन्तो महर्षयो मत्तोऽपि श्रोतुमर्हन्ति योग्या भवन्ति उपधारवितु प्रकाशयितुश्चार्हन्ति। ननु कथं योग्या भवाम इत्यत आह-प्रजानुग्रहार्थमिति। ___ ननु कस्माद् वयं प्रजानुग्रहं विदधाम इत्यत आह-आर्षमित्यादि। आर्षम् ऋषीणां स्वाभाविकधम्मौ ब्रह्म, तच्च ऋषिवधम्मो ब्रह्म हि मैत्री प्रति मित्रतायाः भागे वर्तते। कारुप्यं प्रति आत्मनश्चानुत्तममुदारं पुण्यं प्रति च वर्त्तते । ननु कस्मादित्यत आह ब्राह्म कम्मक्षियमिति । तत् श्रुत्वेत्यादि ॥३॥ कृत एवेत्यर्थः। 'अयम्'शब्द उभाभ्यां काल शब्दाभ्यां योजनीयः। प्रजापतये ब्रह्मति च्छेदः । प्रजानामल्लायुमत्वेति योजना । अल्पत्वादायुष इति शेषः । अल्पस्तपःप्रभृतीनां सञ्चयोऽस्मिन्नायुषि तत् तथा। 'प्रति'शब्दो मैत्यादिभिः प्रत्येकं सम्बध्यते। 'अर्थ'शब्दश्चाधिकारे। तेन मैत्रीकारुण्यमधिकृत्य यं ब्रह्मा प्रजापतयेऽदात्, तमनुश्रीतुमर्हथेति योजना ॥ १-३॥ * अत्र अथ इत्यधिकश्चक्रसम्मतः पाठः। + ब्रह्म घेत्यत्र ब्रह्मचर्य प्रति इति पाठान्तरम् । २९२ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy