________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद
२३२४
चरक-संहिता। वन्तम् अमराधिपतिगुप्तं जग्मुः भृग्वगिरोऽत्रिवशिष्ठकश्यपागस्त्यपुलस्तावामदेवासितगोतमप्रभृतयो महर्षयः ॥ २॥ __तानिन्द्रः सहस्रहगमरवरोऽब्रवीत् स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणामस्ति वो छ ग्लानिरप्रभावत्वं वैस्वयं वैवर्ण्यञ्च ग्राम्यवासकृतमसुखमसुखानुबन्धं ग्राम्यो हि वासो मूलमप्रशस्तानां तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां स्वशरीरम् अरनिभिः। कालश्चायमायुवेदोपदेशस्य ब्रह्मर्षीणामात्मनः स्थानममराधिपतिगुप्तमिन्द्रेण पालितम् । के त ऋषय इत्यत आह--- भृग्वित्यादि ॥२॥
गङ्गाधरः-तानित्यादि। तान् हिमवन्तं गतवतो भृग्वादीन महर्षीन् । किमब्रवीत् तदाह-स्वागतमित्यादि। स्वागतं सुखेनागतमागमनमभूदिति समागमे प्रथमकुशल जिज्ञासा ततः प्रश्नान्तरमिति साधूनां व्यवहारविधिः । ततः प्रश्नस्तु ब्रह्मविदामित्यादि । वो युष्माकं ब्रह्मविदां ग्लानिरहर्पः अप्रभावत्त्वं प्रभाशालिखहानिरित्यादि सर्चममुखं तथा असुखमनारोग्यम् अनुवन्नाति यत् ; असुखमनारोग्यं ग्राम्यवासकृतमेव । हि यस्मात् । ग्राम्यो वासोऽप्रशस्तानाममङ्गलानां मूलं तत् अप्रशस्तानां मूलेन ग्राम्यवासेन कृतमसुखमसुखानुबन्धश्च यत् कर्मजातं तत् प्रजानां ग्रामवासशीलानाम् अप्रशस्तकारणं ग्रामवासं सततं कुव्वतामनुग्रहः स्वशरीरमरक्षिभिः पुण्यकृद्भिर्भवद्भिः कृतः। इत्युक्त्वा तेषामारोग्योपायमाह-कालश्चेत्यादि । अयं साम्पतिको यः कालः स आयुर्वेदोपदेशस्य कालो भवति यदायुवेदादधिगम्योपधिविशेषसेवनयोग्योऽयं कालो वर्तते। तत्र यदि भवद्भिरपृष्टोऽहं कस्मात् स्वयमायुर्वेदमुपदिशामीत्याशङ्का तदाब्रवीत् ब्रह्मर्षीणामित्यादि। प्रजापतिरश्विभ्यां प्रायच्छदित्यह्य तथा प्रजापतये ब्रह्मा प्रायच्छदिति चोह्यम् । इतिकर्त्तव्यता व्यापारः। इन्द्रपर्यायकथनं स्तुत्यर्थम्, स्तुतिश्चेयमिन्द्रस्यायुर्वेदप्रकाशकत्वात्। असुखानुबन्धमिति रोगरूपम् असुखमनुबनातीत्यमुखानुबन्धम्। मूलमिति कारणम् । कृतः प्रजानुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधादिसाधनप्रकाशनेन प्रजानुग्रहः
* मनोग्लानिरिति चक्रः।
For Private and Personal Use Only