________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्म अध्यायः
चिकित्सितस्थानम् ।
२३२३ अथात आयुव्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्योषध्याहाराः सन्तः साम्पनिका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः । ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतं दोषं ७ मत्वा पूर्वनिवासमपगतग्राम्यदोषं मत्वा शिवं पुण्यमुदारं मध्यमगम्यमसुकूतिभिः गङ्गाप्रभवममरगन्धर्वयनकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीथौंषधिप्रभवम् अतिशरण्यं हिम
गङ्गाधरः-अथेत्यादि। उद्देशानुक्रमसात् करप्रचितिक रसायनपादव्याख्यानन्तरमायुर्बेदसमुत्थानीयं रसायनस्याध्यायस्य चतुर्थपादं व्याख्यास्यामः । आयुर्वेदसमुत्थानमधिकृत्य कृतम् आयुर्वेदसमुत्थानीयम्॥१॥
गङ्गाधरः-ननु कुतः कथमायुर्वेदस्य समुत्थानमिति तदाह —ऋषय इत्यादि। कदाचिदिति कस्मिन्नपि काले खलु भृगुप्रभृतय ऋषयः शालीनाः कर्मविशेषपरिग्रहात ग्रामीणजनानां सदृशा यायावराः पुनःपुनर्वक्रगमनशीलाश्च ग्राम्योषध्याहारा ग्रामीणजनानां ये तण्डलशाकादिमयाहारास्तानाहारान् कृतवन्तः सन्तः साम्पनिका अर्थादिसम्पत्त्या देहगौरवेणालसाश्च भूखा मन्दचेष्टाश्च सन्ध्यावन्दनादिषु कम्ससु अल्पचेष्टाश्च नातिकल्याश्च प्रायेण बभूवुः । ते पुन षयः सर्वासां तपसे उचितानामितिकर्तव्यतानां क्रियाणां करणेऽसमर्थाः सन्तः ग्राम्यवासकृतं ग्रामवासजनितं निजानां दोषं मखा पूर्व निवासं हिमवन्तं पळतम् अपगतग्राम्यदोषं नानाविधाकुशलाहारविहारादिनानाविधामङ्गलकारणरहितं मखा जग्मुः। अपगतग्राम्यदोषत्वे हेतुमाह-शिवमित्यादि। शिवं शिवकरं शिवकरशिवनामकपरमदेवताध्युषितखात्, ततश्च पुण्यं मेध्यम् असुकृतिभिरधर्मवद्भिरगम्यं गन्तुमशक्यं दिव्यानां तीर्थो षधीनां गङ्गासोमादीनां प्रभवमुत्पत्ति
चक्रपाणिः- आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्यादुच्यते । आयुर्वेदसमुग्थानमस्मिन्नस्तीति मत्वर्थ- छ'-प्रत्ययेणायुर्वेदसमुत्थानीयः। शालीनत्वं यायावरत्वञ्च कर्षणकर्मविशेषापरिग्रहात्। सम्पन्नमनु उपयुज्यन्त इति साम्पन्निकाः । नातिकल्या इति नातिनीरोगाः ।
* आत्मदोषं इति वा पाठः ।
For Private and Personal Use Only