________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद३
२३२२
चरक-संहिता।
तत्र श्लोकः। करप्रचितिके पादे दश षट् च महर्षिणा। रसायनानां सिद्धानां संयोगाः समुदाहृताः॥१६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रथमाध्याये
करप्रचितीयरसायनपादस्तृतीयः ॥३॥
गङ्गाधरः-पादं समापयति। तत्र श्लोकः-- करेत्यादि ॥१६॥
अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित
स्थाने करप्रचितीयरसायनपादस्तृतीयः ॥३॥
गुणाः सन्ति। केचित् तु यावजीवं कुनखस्यैव वर्जनमाहुस्तन्वान्तरोक्तम्-“यावजीवितं कुनखांश्च विवर्जयेत्" इति। शिलाजतुप्रयोग स्तौति- न सोऽस्तीत्यादि ॥ १५ ॥ १६ ॥
.
इति महामहोपाध्यायचरक चतुरानननीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां
चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां
करप्रचितीयरसायनपादव्याख्या ॥ ३ ॥
For Private and Personal Use Only