________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः चिकित्सितस्थानम् । २३२१
सुश्रतेऽपरे रसायनयोगाः दृश्यन्ते। तद् यथा। अथायुःकामीयं वक्ष्यामः। मत्रौषधसमायुक्तं संवत्सरफलप्रदम्। विल्वस्य चूर्ण पुष्ये तु हुतं वारान् सहस्रशः॥ श्रीसूक्तन नरः कल्ये ससुवर्ण दिने दिने । सर्पिर्मधयुतं लिह्यादलक्ष्मीनाशनं परम्। खचं विल्वस्य मूलस्य कृषा कार्थ दिने दिने। प्राश्नीयात् पयसा सार्द्ध स्नाला हुला समाहितः। दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत्॥ हुखा विशालाकाथन्तु मधुलाजैश्च संयुतम् । अमोघं शतसाहस्रयुक्तं युक्तरथं स्मृतम्॥सुवर्णपद्मवीजानि मध लाजाः प्रियङ्गवः । गव्येन पयसा पीतमलक्ष्मी प्रतिषेधयेत् ॥ नीलोत्पलदलकाथो गव्येन पयसा शृतः । ससुवर्णरितलैः सार्द्धमलक्ष्मीनाशनः स्मृतः॥ गव्यं पयः सुवर्णश्च मधच्छिष्टश्च माक्षिकम् पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् । वचाघृतसुवर्णश्च विल्वचर्णमिति त्रयम्। मेध्यमायुष्यमारोग्य-पुष्टिसौभाग्यवर्द्धनम् । वासामूलतुलाकाथे तैलमावाप्य साधितम्। हुखा सहसमश्नीयान्मध्यमायुष्यमुच्यते ॥ यावकास्तावकान भक्षेदभिभूय यवांस्तथा। पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद् भवत् । मध्वामलकचर्णानि सुवर्णमिति च त्रयम्। प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ शतावरीघृतं सम्यगुपयुक्तं दिने दिने। सक्षौद्रं ससुवर्णश्च नरेन्द्र स्थापयेद् वशे ॥ गोचन्दना मोहनिका मधुकं माक्षिकं मधु। सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता॥ पद्मनीलोत्पलकाथे यष्टीमधुकसंयुते । सर्पिरासादितं गव्यं ससुवर्ण सदा पिवेत्। पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे। अलक्ष्मीन सदायुष्यं राज्याय सुभगाय च॥ यत्र नोदीरितो मन्त्री योगेष्वेतेषु साधने। शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् ॥ पाप्मानो नाशयन्त्येता ददुपश्चौषधयः श्रियम् ॥ कुर्युवर्णबलश्चापि मनुष्यममरोपमम् ॥ सतताध्ययनं वादः परतन्त्रावलोकनम्। तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरो गणः॥ आयुष्यं भोजनं जीणे वेगानाश्चाविधारणम् । ब्रह्मचय॑महिंसा च साहसानाश्च वजनम् ॥ इति ॥१५॥
शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात् क्षीरादिप्रयोगः। सर्वकालमिति यावदसायनाहिता
For Private and Personal Use Only