SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [रसावनपाद ३ २३२० चरक-संहिता। शिलाजतुप्रयोगेषु विदाहीनि गुरूणि छ । वर्जयेत् सर्वकालन्तु कुलत्थान् परिवर्जयेत् ॥ ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम् । लोकदृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ॥ पयांसि ® शुक्तानि रसाः सयूषास्तोयं समूत्रं विविधाः कषायाः। आलोड़नार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याप्रसमीक्ष्य कार्यम् ॥ न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य। तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जा विपुलां ददाति ॥ १५॥ शिलाजतुरसायनम् । । नन्वस्य प्रयोगे कि सेव्यं किमसेव्यमित्यत आह-शिलाजवित्यादि। सर्वकालं यावज्जीवम् अश्मनः प्रस्तरस्य सदृशः प्रस्तरसम्भवश्चायं प्रस्तरमयः प्रस्तरस्वभावस्तस्मादस्य प्रयोगेषु च कुलत्थाः सव्वैकालं वा विवाह्यादीनि प्रयोगानन्तरं यदृच्छया सेव्यानि इति भावः। . नन्वश्मनो भेदनाः कुलत्थाः कथमुपलभ्यन्ते इत्यत आह-लोकदृष्टा इति। लोके प्रत्यक्षमेव दृष्टाः कुलत्था अझ्यभेदनास्तस्मात् तेषां कुलत्थानां प्रयोगः प्रतिषिध्यते शिलाजतुप्रयोगेष्वित्यर्थः । नन्वस्य प्रयोगः केन कथं काय्य इत्यत आह—पयांसीत्यादि। गव्यदुग्धादिना शिलाजतुमालोडा पाययेत् इति भावः। तनुशोधनकुटीप्रवेशादिविधिनायं प्रयोगः श्रेष्ठः। अस्याशिषमाह-न सोऽस्तीत्यादि। प्रसह्य ति स्तुतिः। शिलाजतुरसायनम् । उष्णस्य शीतस्य च वीर्य्यस्य प्रकर्षो निषिध्यते, तेन नात्युषणशीतत्वं विधीयते, ततश्च शिलाजतुनि वीर्य शीतम् उष्ण वाभिहितमपि न बलवद भवतीति कभ्यते ॥ : शिलाजतुप्रयोगेष्विति बहुवचनालोचनाद् भेदेन प्रयोगभेदो बुद्धिस्थीकृत्य ज्ञेयः। * तक्राणि इति वा पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy