________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
म अध्यायः] चिकित्सितस्थानम् । २३१६
कटुर्विपाके शीतश्च स सुवर्णस्य नित्रवः॥ रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते। ताम्रस्य वर्हिकण्ठाभस्तिक्तोष्णः कटु पच्यते ॥ यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः । कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः। रसायनप्रयोगे च पश्चिमस्तु विशिष्यते ॥ यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषतः प्रशस्यन्तै मला हेमादिधातुजाः॥ मधुर इत्यादि। कटुर्विपाके प्रभावात् शीतश्चान्यथा मधुरत्वेन मधुरपाकः शीतश्च कपायत्वेन कटर्विपाक उष्णश्च स्यात् । रूप्यस्येत्यादि । रूप्यस्य निस्रवः शिलाजतुः कटुको रसे प्रभावात् तु शीतो वीर्य्यतः स्वादुमधुरश्च विपच्यते। ताम्रस्येत्यादि। ताम्रस्य निस्रवः शिलाजतुः तिक्तो रसे वीर्ये तूष्ण इति तिक्तोष्णः कटु च पच्यते। यस्वित्यादि। यस्तु शिलाजतुलवणान्वितस्तिक्तको रसे शीतश्च प्रभावात् स चायसोऽयसो निस्रवः। सर्वश्रेष्ठ इति सौवर्णादिभ्यस्त्रिभ्यः'श्रेष्ठः।
ननु तर्हि किं सौवर्णादयस्त्रयोऽयौगिका इत्यत आह-गोमूत्रेत्यादि। सौवर्णादयः सङ्घ शिलाजतवो गोमूत्रगन्धयः स्युस्ते सर्वेऽपि सर्चकम्सेसु रसायनवाजीकरणरोगहरणेषु यौगिका भवन्ति । तत्र पश्चिमायसस्तु शिलाजतुः सर्वश्रेष्ठखाद रसायनप्रयोगेषु विशिष्यते विशिष्टफलदखात् श्रेष्ठ उच्यते।
नन्यस्त्वायसस्य जातिविशेषवचनप्रयोजनमेतत् सौवर्णादेर्जातिभेदवचन प्रयोजनं किमित्यत आह-यथाक्रममित्यादि। वातपित्ते न वाते वा पित्ते वा सौवर्णः शिलाजतुर्विशिष्यते। श्लेष्मपित्ते न श्लेष्मणि वा पित्ते वापि रौप्यशिलाजतुः। कफे ताम्रः शिलाजतुस्त्रिषु वातपित्तकफेषु आयस इत्यतश्च सर्वश्रेष्ठः। हेमादिधातुजा हेमरजतताम्रलौहजाः।। एव शिलाजतु भवति । मृत्स्नं मसृणम्, अच्छं स्वच्छम्। यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादः पाक उक्तः, स उत्सर्गापवादन्यायेन ज्ञेयः। उष्णस्य ताम्रभवस्य तथा खयाणाञ्च शीतत्वयुक्तानाम् अत्युष्णशीतवीर्य्यताया अवकाशो नास्ति, यतः, सामान्यगुणकथने 'नात्युष्णशीतम्' इति पदेन
For Private and Personal Use Only