________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[रसायनपाद३
२३१८. चरक-संहिता। [ रसायनपाद ३
जराव्याधिप्रशमनं देहदाय करं परम् । मेधास्मृतिकरं बल्यं क्षीराशी तत् प्रयोजयेत् ॥ प्रयोगः सप्त सप्ताहास्त्रयश्चैकश्च सप्तकः । निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा । मात्रा पलन्त्वपलं स्यात् कर्षस्तु कनीयसी ॥१४॥ जातेविशेष सविधि तस्य वक्ष्याम्यतः परम् । हेमाद्याः सूर्यासन्तप्ताः स्रवन्ति गिरिधातवः ॥ जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु।
मधुरश्च सतिक्तश्च जवापुष्पनिभश्च यः। क्षीरशालिपष्टिकाशनेन यथाग्निवलं पोतं सदस्मै पीतवते सुखान्वितं सुखसंशकं दीर्घमायुर्दद्यात् । अस्य च जराव्याधिप्रशमनादिकरं भवति। ननु कियन्ति दिनानि प्रयोजयेदित्यत आह-प्रयोगः सप्त सप्ताहा इत्यादि। सप्त सप्ताहा एकोनपञ्चाशतं दिनानि व्याप्य प्रयोगः परः श्रेष्ठः। त्रयः सप्ताहाः प्रयोगो मध्यः। एकश्च सप्तकः सप्ताहः प्रयोगोऽवरः कनीयानिति त्रिविधस्तस्य शिलाजतुनः प्रयोगः। सप्ताहा इति द्वितीयार्थे प्रथमा च्छान्दसखात्। मात्रामाह-मात्र त्यादि । परा मात्रापलम् । मध्यमा मात्रातु अर्द्धपलं स्यात् । कनीयसी तु मात्रा कर्ष इति। कनीयसीतिवचनेन ख्यापितं प्रबलमध्यमावरपुरुषान् पति क्रमादिति बोध्यम् ॥ १४ ॥
गङ्गाधर :-अथ तस्य शिलाजतुनो जातिविशेषात् स्वविधिमतः परं वक्ष्यामि। तत्रादावस्योत्पत्तिक्रममाह-हेमाद्या इत्यादि। आदापदन रजतताम्रलौहधातुत्रयं गृह्यते । तस्य चिह्नमाह-जखाभमित्यादि । जवाभं स्पर्शतो जलामं लाक्षाससं न वर्णतः। मृत्स्नाभं मृत्तिकामं मृदु। जातिभेदमाहभागानियमे लौहसमानभागता शिलाजतुनः। प्रयोगः सप्त सप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः, एवं तयश्चैकश्च सप्तक इत्यपि बोद्धव्यम् ॥ १४ ॥
चक्रपाणिः-सषिधिमिति विधानसहितम् । शिलाजतुविधानञ्च — यथाक्रमं वातपित्ते' इत्यादि प्रन्थन वक्तव्यम् । हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते, यतः, न साक्षात् सुवर्णादिभ्य
.
* मृङमृत्स्नाच्छम् इति वा पाठः ।
For Private and Personal Use Only