________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१६६
[विषचिकित्सितम्
नासाचिकर्णजिह्वा कण्ठनिरोधेषु कर्म्म नस्तः स्यात् । वार्त्ताकवीजपूरकज्योतिष्मत्यादिभिः पिष्टैः ॥ अञ्जनमच्युपरोधे कर्त्तव्यं वस्तमूत्रपिष्टैस्तु । दारुव्योषहरिद्राकरवीरकर अनिम्बसुरसैस्तु ॥ २२ ॥ श्वेतावचाश्वगन्धाहिङ्गमृताकुष्ठसन्धवं लसुनम् । सर्षपकपित्थमध्यं टुण्टुकमूलकरञ्जवीजानि ॥ व्योषं शिरीषपुष्पं द्व े च निशे वंशलोचनञ्च समम् । पिष्ट्राथ वस्तमूत्रेण च गोश्च पित्तेन * सप्ताहम् ॥ व्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं चिप्रम् | सर्व्वज्वरभूतग्रहविसूचिका जीर्णमूर्च्छार्त्ति ॥ उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान् । शुष्काक्षिपाकपिल्वा दार्म्मकण्डूतमोदोषान् ॥ क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाअनात् तथा मोहान् । लेपाद दिग्धक्षतली दुष्टाद्यष्टविधविषघाती ॥
चरक संहिता ।
A
Acharya Shri Kailassagarsuri Gyanmandir
खण्डीकृतं दद्यात् । नासादिनिरोघे नस्तः कम्म स्यात् । करित्यत आहवात्तां केत्यादि । वार्त्ताकं वीजपूरं ज्योतिष्मत्यादिकञ्च पिष्ट्वा नस्यं दद्यात् । भक्ष्युपरोधेऽञ्जनं दारुप्रभृतिभिमंत्र पिष्टैर्दद्यात् ।। २२ ।
गङ्गाधरः- श्वेतेत्यादि । श्वेता श्वेतापराजिता । कपित्थमध्यं शस्यम् । टण्टकः श्योनाकस्तस्य मूलम् । वंशलोचनान्तं सर्व्वं समं वस्तमूत्रेण पिष्ट्वा भावनामेकां दला गोपित्तेनापरां ततो वस्तमूत्रेण चैकामित्येवं सप्ताहं व्यत्यासभावितोऽयमगदः शिरसि स्थितं विषं क्षिप्रं निहन्ति अञ्जनात् तथा लेपात् । दिग्धाद्यष्टविधं दिग्धं शरादिषु लिप्त क्षतं लीढं दष्टं पीतं विद्धं दूषीविषं
कटुकफला तितालाबु, किंवा कटु लिकटु । ज्योतिष्मतीत्यादीनि पड़ विरेचनशताश्रितोयोक्तानि * गोऽश्वपित्तेनेति वा पाठः ।
For Private and Personal Use Only