________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्याय:
चिकित्सितस्थानम्। ३१६५ क्षारोऽगदः कफस्थानगते स्वेदस्तथा सिराव्यधनम् । दृषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम् ॥ भेषजमेवं कल्प्यं भिषजा विज्ञाय सर्वदा सर्वम् । स्थानं जयेत् पूर्व स्थानस्थस्याविरुद्धश्च ॥ २१ ॥ विषदृषितकफमार्गस्रोतःसंरोधरुद्धवायुस्तु। मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गविहीनश्च ॥ चर्मकषायाः कल्कं विल्वसमं मूईि काकपदमस्य। कृत्वा दद्यात् कटभीकटुकटफलप्रधमनश्च ॥ छागगव्यमाहिषाविककौक टाब्जमांसम् ।
दद्यात् काकपदोपरि मत्ते विषेणैव सहसा ॥ विषे मधुपानं घृतपानं पयःपानमम्बुपानमवगाहसेको चाम्बुभिरेव। कफस्थानगते क्षारोऽगदः स्वेदश्च तथा सिरावेधश्च । रक्तस्थिते दृषीविषे पञ्चविधं सिराकर्म पञ्च सिरावेधः। भिषजा एवमेतत् प्रकारं विज्ञाय सब्वेदा सर्व भेषजं कल्प्यम्। पूर्व स्थानं जयेत् । स्थानस्थस्य दोषस्याविरुद्धश्च कर्म कुर्यात् ॥२१॥ - गङ्गाधरः- दूषितकफेन वायुगतिस्रोतसां रोधात् संरुद्धो वायुयस्य स मयों मृत इव मरणकाले यथा श्वसेत् तथा श्वसेत् । ताह किं म्रियते न च म्रियते। असाध्यलिङ्गैबिहीनश्च स्यात्। चर्म कषायाः कल्कं विल्वसमं पलमात्रमस्य मूद्धि काकपदं त्रिरेखाकारं छेदनं कृखा कटभोकटुकीकटफलानां प्रधमनं दद्यात्। छागेत्याति। विषण सहसा मत्ते काकपदोपरि छागादिमांसं क्रमे नोक्तः। किंवा अग्निशब्देन स्वेदोऽपि गृह्यते। पित्तस्थ इति पित्तस्थानस्थे। दूषीविष इत्यादौ पञ्चविधसिराकर्म इति पञ्चशिराव्यधः । स्थानस्थस्येति स्थानगतविषस्याविरुद्धच कुर्यादिति शेषः ॥२१॥
चक्रपाणिः-स्रोतःसंरोधेन रुद्धो वायुर्यस्य सः। असाध्यलिङ्गैरिति प्रागुक्तनीलौष्ठादिभिः। धर्मकपाया इति धर्मचटिका पायाः। काकपदमिति काकपदकमिव व्रणम् । कटु इत्यत्र
For Private and Personal Use Only