________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६४ घरक-संहिता। [विषचिकित्सितम
सर्वविषघ्नो जयकृत् विषमृतसञ्जीवनो ज्वरनिहन्ता। प्रेय-विलेपन-धारण-धूमग्रहणैर्य हस्थश्च ॥ भूतविषजन्वलक्ष्मीकामणमन्त्राग्न्यशन्यरीन् हन्यात् । दुःस्वप्न-स्त्रीदोषानकालमरणाम्बुचौरभयम् ॥ धनधान्यकार्यसिद्धिश्रोपुष्ट्यायुर्विवर्द्धनो धन्यः। . मृतसञ्जीवन एष प्रागमृताद ब्रह्मणा विहितः ॥ २०॥
मृतसञ्जीवनोऽगदः। मन्त्रैर्धमनीबन्धोऽपामार्जनं कार्यमात्मरक्षणश्च। दोषस्य विषं यस्य स्थाने स्यात् तं जयेत् पूर्वम् ॥ वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कषानञ्च ।
मधुघृतपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ॥ जलं बालकम् । सिन्धुवार इह निगुड्याकारशुक्लपुष्प इति भेदः। शम्पाकः चतुरङ्गलः। लोध्रमिह रक्तलोध्रम् । मयूरकमपामार्गः। गन्धफली प्रियः । नाकुली रास्ता । काम्म॑णः परद्रोहोपायो मन्त्रः। विषमृतसञ्जीवनोऽगदः॥२०॥
गङ्गाधरः-नन्वरिष्टाबन्धनं कथं कुर्यादित्यत आह-मन्त्ररित्यादि। धमनीवन्धो विषप्रसरणनिवृत्त्यर्थं धमनीबन्धः कार्यो दंशदेशादूर्द्ध चतुरङ्गले मन्त्रैः सिद्धेविषघ्नमन्त्रैस्तथाऽपामार्जनं मन्त्रैः कार्यमात्मरक्षणश्च कार्यम् । यस्य दोषस्य स्थाने विषं स्यात् तं दोषं पूर्व येत् । तद् यथा । वातस्थाने विषे स्वेदः कार्यः, नतकुष्ठयोः कल्कं दधा पिबेत्। पित्तस्थे पित्तस्थानगते अपामार्गः। गन्धफली प्रियङ्गुः । नाकूली रास्ना। धारणशब्देन शरीरे धारणम् । गृहस्थ इति गृहे तिष्ठन् । मन्त्रोऽभिचारमन्तः। स्त्रीदोषा इति स्त्रीदत्तगरादिदोषाः। प्रागमृतादिति अमृतोत्पत्तेः प्राक, एतेन चामृतसमानत्वचास्य दइते। २०॥
चक्रपाणि:-मन्त्ररित्यादौ अपामार्जनमिति प्रतिलोमेन मार्जनं मन्त्रैरेव कार्यम् । आत्मरक्षा अतावेशनिषेधार्थम् । जयेदिति स्थानि दोषं जयेत् । स्वेदो यद्यपि निषिद्धत्वेनोक्तः तथापि बासस्थानविशेषत्वात विधीयते। स्वेदस्तु प्रायो भोजनादिविधानवत , अस्य प्रयोगश्चविंशत्युप
For Private and Personal Use Only