________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम् ।
३१६३ पृकाप्नवस्थौणेयकाक्षीशैलेयरोचनातगरम् । ध्यामककुङ्कममांसीसुरसानलालकुष्टघ्नम् ॥ वृहतीशिरीषपुष्पश्रीवेष्टपद्मचारटोविशालाः। सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः॥ जात्यर्कपुष्परसरजनोद्वयहिङ्गपिप्पलीलाक्षाः। जलमुद्गपर्णिचन्दनमदनमधुकसिन्धुवाराश्च ॥ शम्पाकलोधमयूरकगन्धफलीनाकुलीविङ्गाश्च ।
पुष्ये संहृत्य समं पिष्टा गुटिका विधेयाः स्युः ॥ चतुर्थे पञ्चमे वापि दीकरवदाचरेत्। काकोल्यादिाहतः षष्ठ पयश्च मधुगे गणः। हितोऽवपोड़े खगदः सप्तमे विषनाशनः॥ अथ राजिमतां वेगे प्रथमे शोणितं हरेत्। अगदं मधुसर्पिभ्यां संयुक्तं पाययेत च। वान्तं द्वितीये खगदं पाययेद् विषनाशनम्। तृतीयादिषु त्रिष्वेव विधिदेवीकरोदितः। षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तरे। गर्भिणीबालवृद्धानां सिराव्यधविवर्जितम्। विषात्तोनां यथोदिष्ट विधानं शस्यते मृदु ॥ रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके। गवाश्वयोश्च द्विगुणं त्रिगुणं महिषोष्ट्रयोः। चतुगु णन्तु नागानां केवलं सर्वपक्षिणाम्। परिषेकान् प्रदेहांश्च सुशीतान् अवचारयेत् । माषकं खञ्जनस्येष्टं द्विगुणं नस्यतो हितम्। पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः।देशप्रकृतिसात्म्यत्त विषवेगबलाबलम्। प्रधाऱ्या निपुणो बुद्धा ततः कर्म समाचरेत् । वेगानुपूर्व मित्येतत् कम्मोक्तं विषनाशनम् ॥ इति ॥१९
गङ्गाधरः-पृक्वेत्यादिना मृतसञ्जीवनोऽगदः। पृक्का-विडङ्गान्तानि पुष्ये नक्षत्रे संहृत्य समं पिष्ट्वा जलेन गुटिका विधेयाः स्युः। तानि संहृत्य वा पुष्य नक्षत्रे जलेन पिष्ट्वा गुड़िका विधेयाः स्युः। अत्र पृक्का पिडङ, प्लवः कैवत्तेमुस्तकम् । स्थौणेयं ग्रन्थिपर्णम् । काक्षी सौराष्ट्रमृत् । शैलेयं शैलजम् । रोचना गोरोचना । ध्यामकं गन्धतृणम् । सुरसाग्रं निगुण्डी-मञ्जरी। एला स्थूला। आलं हरितालम्। कुष्ठघ्नमैगजा। श्रीवेष्टकं नवनीतखोटी। पद्मचारटी कुम्भाइ लता। सावरको धवललोध्रः। जात्यर्कयोः पुष्पं, तस्य रसः।
चक्रपाणिः-पृक्के त्यादौ काक्षी सौराष्ट्रिकी मृत् । कुटनः खदिरः। कौन्ती रेणुका। मयूरकः
For Private and Personal Use Only