________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६२
चरक-संहिता। [विचिकित्सितम् गोपित्तयुक्तरजनी-8-मञ्जिष्ठामरिचपिप्पलीपानम्। विषपानं दष्टानां विषपीते दंशनं चान्ते ॥१८॥ शिखिपित्तार्द्धयुतं स्यात् पलाशवीजमगदो मृतेषु वरः। वार्ताकफाणितागारधूमगोपित्तनिम्बं वा॥ गोपित्तयुतैडिका सुरसोग्राद्विरजनीमधुककुष्ठैः।। शस्तामृतेन तुल्या शिरीषपुष्पकाकाण्डरसर्वा॥ काकाण्डसुरसगवानीपुननवावायसीशिरीषफलैः।
तद्वदरिष्टजलमृते + लेपौषधनस्यपानानि ॥ १६ ॥ कषाय पानादिकं कार्यम्। गोपित्तेत्यादि। गोपित्तयुक्तरजन्यादीनां कल्ककताररूपेण पानश्च संज्ञास्थापनम् । विषपान मिति। दष्टानां सर्पदंष्ट्रादष्टानां मौलविषय पानं विषपीतेऽन्ते शेषवेगे दंष्ट्राविषैर्दशनम् ॥१८॥
गङ्गाधरः-शिखीत्यादि। मृते विषेण मृत इव लक्षिते शिखिपित्तमर्द्ध तद द्विगुणं पलाशवीजं पानालपादौ वरोऽगदः, बार्ताकादिपञ्चकं वा वरोऽगदो विस्मृते। सुरसादिभिः षड़ भिगोपित्तयुत्तगुडिका विषमृते शस्ता। शिरीषपुष्पकाकाण्डरसर्वा सुरसादिभिडिकाऽमृतेन तुल्या। काकाण्डः कृष्णशिम्वी। काकाण्डादिशिरीषफलान्तैस्तद्वद गुड़िका अरिष्टजलमृते लेपादीनि शस्तानि । सुश्रुते च। "नस्यकञ्जिने युञ्जयात् तृतीये विषनाशने। वान्तं चतुर्थे पूर्वोक्तां यवागृमथ दापयेत् ॥” शीतोपचारं कृखादौ भिषक् पञ्चमषष्ठयोः । दापर्यच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्तिताम् ।। सप्तमे लवपीड़ेन शिररतीक्ष्णेन शोधयेत् । तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूद्धि च। कुर्यात् काकपदं चर्म सामृग वा पिशितं क्षिपेत् ॥ पूच्च मण्डलिनां वेगे दर्वीकरवदाचरेत्। अगदं मधुसर्पियों द्वितीये पाययेत च। वामयिता यवागूश्च पूर्वोत्तमथ दापयेत्। तृतीये शोधितं तीक्ष्णैर्यवागू पाययेद्धिताम् । शेषः । काकाण्डा शुशुभेदः । गोपित्तयुता रजनी आश्वयोतनादिषु ज्ञया। अन्ते इति सर्वोपक्रमशेषे सप्तमे वेगे रू.पण दंशनं कार्य्यम् ॥ १७ ॥१८॥
चक्रपाणि:-अष्टमे देगे शिखिपित्तेत्यादिना मृतसञ्जीवनयोगमाह-मृत इति उदबन्धत्वादिभिस्विभिः सम्बध्यते । लेपौषधनस्यपानानि इत्यादि उद्बन्ध त्वत्यादिषु यथायोग्यतया ज्ञयानि ॥ १९ ॥ • योपित्तयुता रजनीति पाठान्तरम्। + सुरसाग्रन्थिविरजनीमधुककुष्ठैरिति बहुषु ग्रन्थेषु पाठः। * उठबन्धविषजलमृते इति चक्रसम्मतः पाठः।
For Private and Personal Use Only