________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१७८
चरक-संहिता। [विषचिकित्सितम् स्याद्, दण्डाभिहते दण्डराजी दण्डस्य रेखा न स्यात् । क्षताच्च दंशनवेधनक्षताच्च क्षतजं रक्तं नायाति। एतानि पीतविषस्य दष्टविद्धयोर्म रणलक्षणानि भवन्ति। अत्र सुश्रुते चोत्तम्- “जङ्गमस्य विषस्योक्तान्यधि. ष्ठानानि षोड़श। समासेन मया यानि विस्तरस्तेषु वक्ष्यते। तत्र दृष्टिनिश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तव-मुखसन्दशविशर्द्धितगुदास्थिपित्तशूकशवानीति। तत्र दृष्टिनिश्वासविषा दिव्याः सर्पाः। भौमास्तु दंष्टाविषाः । मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथाऽन्ये दंष्ट्रानख विषाः। चिपिटपिच्चटककषायवासिकसषेपवासिकतोटकवचःकीटकौण्डिल्यकाः शकुन्मूत्रविषाः। मूषिकाः शुक्रविषाः। लूताश्च लालामूत्रपुरीपमुखसन्दंशनखशुक्रारीवविषाः। वृश्चिक-विश्वम्भर-राजीवमत्स्योचिड़िङ्गाः समुद्रश्चिकाच लालाविषाः। चित्रशिरःसरावकुर्दिशतदारुकारिमेदकशारिकामुखा मुखसन्देशविशर्द्धितमूत्रपुरीषविषाः। मक्षिकाकणभजलायुका मुखसन्दंशविषाः। विषहतास्थिसर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि । शकुलीमत्स्यरक्तराजीचरकीमत्स्याश्च पित्तविषाः। सूक्ष्मतुण्डोच्चिडिङ्गवरटी. शतपदो-शूकवलभिका-शृङ्गी-भ्रमराः शुकतुण्डविषाः। कीटसर्पदहा गतासवः शवविषाः। शेषास्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः। भवन्ति चात्र । राशोऽरिदेशे रिपवस्तुणाम्बमार्गान्नधूमश्वसनान् विषण। सन्दूषयन्त्येभिरतिप्रदुष्टान् विशाय लिङ्गैरभिशोधयेच्च ॥ दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरातश्च। मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति॥ मञ्जन्ति ये चात्र नराश्वनागास्ते च्छद्दिमोहस्वरदाहशोफान् । गच्छन्ति तेषा. मपहत्य दोषान् दुष्टं जलं शोधयितुं यतेत॥ धवाश्वकर्णासनपारिभद्राः सपाटलाः सिद्धकमोक्षको च । दग्धाः सराजद्रुमसोमवल्कास्तद्भस्म शीतं वितरेत् सरःसु। भस्माञ्जलिश्चापि घटे निधाय विशोधयेदीपसितमेवमम्भः॥१॥ क्षितिपदेशं विषदूषितन्तु शिलास्थली तीर्थ मथेरिणं वा। स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्टखरा नरा वा । तच्छूनतां यात्यथ दह्यते च विशीर्यते लोमनखास्तथैव ॥ तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम्। सिञ्चेत् पयोभिस्तु मृदन्वितैस्तं विडङ्गपाठाकटभीजलेर्वा । ॥२॥ तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये। विड़ भेदवंशदेशे विषं स्यात्। विषमृतस्य विशेषज्ञानार्थ लक्षणमाह-नीलौष्ठेत्यादि। दण्डराजिः दण्डकारा रेखा ॥ १४ ॥
For Private and Personal Use Only