________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१७४
चरक संहिता |
आ भ्रमति चतुष्पदोऽवसीदति ततः शून्यः । मन्दाहारो म्रियते श्वासेन चतुर्थवेगे तु ॥ ध्यायत्या वेगे पक्षी प्रभ्राम्यति द्वितीये तु । स्वस्ताङ्गश्व तृतीये विषवेगे याति पञ्चत्वम् ॥ ११ ॥ लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकाशि सूक्ष्मञ्च | उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञः ॥ रौक्ष्याद वातमशैत्यात् पित्तं सौदम्यादक प्रकोपयति । कफमव्यक्तरसत्वादनुरसांश्चानुवर्त्तेत ॥
अथ चतुष्पदां वेगानाह । चतुष्पदां चतुर्व्विधो वेगः स्यात् । त्रिविधः ।। १० ।।
1
गङ्गाधरः- आय इत्यादि । चतुष्पदो विषोपयोगादादेन वेगे भ्रमति घूर्णते । ततो द्वितीये वेगेऽवसीदति । ततः तृतीये वेगे शुन्य इव सन् मन्दाहारो भवति । चतुर्थ वेगे तु श्वासेन म्रियते । ध्यायतीत्यादि । पक्षी स्थावरविषोपयोगादादेव वेगे ध्यायति । द्वितीये तु प्रभ्राम्यति घूर्गते । तृताय विषवेगे स्तब्धाङ्गः सन् पञ्चत्वं यातीति । इति विषाणां स्थावराणामष्टवेगा उक्ताः ||११|| गङ्गाधरः-- अथ दशगुणं विषमिति यदुक्तं तदाह - लवित्यादि । आशुकारित्वमाशुगुणः । व्यवायीति । व्यवायी देहमखिलं व्याप्य पाकाय कल्पते । विकाशीति । विकाशी विकशत्येवं सन्धिवन्धं विमोक्षयन् । प्रतिगुणतः कर्माण्याह - रौक्ष्यादित्यादि । विषमित्यनुवर्त्तते । । विषं रौक्ष्याद वातं प्रकोपयति । अशैत्यादुष्णत्वात् पित्तं प्रकोपयति । सौक्ष्म्या इति सुश्रुते विशेषः । वातादिजा इति यथायोग्यतया एकदोपद्विदोषत्रिदोषजाः, आदिशब्दः प्रकारवाची । सुश्रुतवचनान्नीलादीनामित्यत आदिशब्देन प्रधानवाचिना नीलप्रधानेतरवदर्शनं भवति । षष्ट हिक्केति च्छेदः । विषवेगप्रस्तावात् चतुष्पाद पक्षिणोऽपि विषवेगानाह । एतद वेगाभिधानेन विषवेगहत्स्य मांसं नोपादेयम् । यस्तस्य विषादित्स्य सर्व्वं शरीरं विषवद् भवति । तुष्पादादीनां अभ्यवेगत्वं सत्वान्यत्वात् । अवसीदतीत्यादि द्वितीये । शून्य इत्यादि तृतीये ॥ १० ॥ ११ ॥
चक्रपाणिः - विषगुणानाह - लध्वित्यादि । प्रत्येकं गुणानां कार्य्यमाह । भशस्यादिति उष्णत्वात् । सौक्ष्म्यादसृव प्रकोपणं असृजोऽपि सूक्ष्ममार्गानुसारित्वात् । अव्यक्तरसत्वात् कफः ।
For Private and Personal Use Only
[विषचिकित्सितम्
पक्षिणां