________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः चिकित्सितस्थानम्।
तृगमोहदन्तहर्षप्रसेकवमथलमा भवन्त्यादेव । वेगे रसप्रदोषादसूकप्रदोषाद द्वितोये तु॥ वैवर्यभ्रमवेपथजृम्भामूच्छोङ्गभङ्गचिमिचिमातङ्काः । दुष्टपिशितात्तृतीये मण्डलकण्डूसहितकोठाः॥ वातादिजाश्चतुर्थे दाहच्छईरङ्गशूलमूर्छाद्याः। नीलादोनां तमसश्च दर्शनं पञ्चमे वेगे ॥ षष्ठ हिका भङ्गः स्कन्धे स्यात्तु सप्तमेऽष्टमे मरणम् । नृणां चतुष्पदां स्याच्चतुर्विधः पक्षिणां त्रिविधः ॥१०॥ गङ्गाधरः-पूर्वमष्टवेगमित्युक्तं तदाह। तृण्मोहेत्यादि। स्थावरविषाणां उपयोगादादा वेगे रसधातुप्रदूषणात् तृड़ादयो भवन्ति। सुश्रुते हुाक्तम् । "स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम्। श्यावा जिह्वा भवेत् स्तब्धा मूर्छा श्वासश्च जायते'। द्वितीये तु वेगेऽमृतदोषात् वैवादयो भवन्ति। सुश्रुते च 'द्वितीये वेपथः स्वेदो दाहः पाष्डूरुजस्तथा। विषमामाशयप्राप्तं कुरुते हदि वेदनाम्' इति । तृतीये वेगे दुष्टपिशितान्मांसप्रदूषणान्मण्डलादयो भवन्ति । सुश्रुते च “तालुशोषं तृतीये तु शूलं चामाशये भृशम् । दुर्चणं हरित शूने जायेते चास्य लोचने” । इति । वातादिजाश्चतुर्थे वेगे वातादिप्रदूषणाद् दाहादयः स्युः। सुश्रुते च “पकाशयगते तोदो हिका कासोऽत्रकूजनम्। चतुर्थे जायते वेगे शिरसश्चातिगौरवम्” इति। नीलादीनामिति । पञ्चमे वेगे नीलादीनां दर्शनं तमसश्च दर्शनं स्यादिति। सुश्रुने च “कफप्रसेको वैवयं पभेदश्च पञ्चमे। सव्वेदोषप्रकोपश्च पकाधान च वेदना” इति। षष्ठे वेगे हिक्का स्यात् । सुश्रुते च “षष्ठे प्रज्ञाप्रणाशश्च भृशं वाप्यतिसार्यते" इति । भङ्ग इत्यादि। सप्तमे वेगे स्कन्धे भङ्गः स्यात् । अष्टमे वेगे मरणं स्यादिति सप्तमवेगस्य चरमावस्थवेगोऽष्टम इष्ट इह तन्त्रे। सुश्रते तु सप्तव वेगा उक्तास्तत्र सप्तमे सन्निरोधो मरणं चरमावस्थामभिप्रत्योक्तम् । “स्कन्धपृष्ठ-कटीभङ्गः सन्निरोधश्च सप्तमे” इति। इत्येवं लक्षणं नृणां स्यात् ।
चक्रपाणिः-सृष्मोहेत्यादिना दंष्ट्रिविषवेगलक्षणमाह-सुश्रुते 'एकैकालातिक्रमेण सप्तवेगा सदीरिताः। इह कलालान इति सप्तवेगाः, भष्टमे तु सप्तकलालङ्घनोत्तरकालं मारको वेग'
For Private and Personal Use Only