________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः
चिकित्सितस्थानम् ।
३१७५ शीघ्र व्यवायिभावादाशु व्याप्नोति केवलं कायम् । तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद् विकाशित्वात् ॥
दुरुपक्रम लघुत्वाद्वशद्यात् स्यादसक्तगतिदोषात् ॥ १२ ॥ असा प्रकोपयति अव्यक्तरसवात् कर्फ प्रकोपयति अनुरसांथानुवर्तते । शोघ्रखाद व्यवायित्वाच्च केवलं कृत्स्नं कायमाशु व्यामोति। तीक्ष्णवान मर्मघ्नं विका शिखात् तद्विषं प्राणघ्नमिति। लघुलाद् दुरुपक्रमं दुश्चिकित्स्यम् । कस्मात् १ वैशद्यात् असक्तगतिदोषात्। वैशद्यगुणतो विषेण दोषाः प्रकुपिताः सक्तगतयो यतो न स्युरस्थिरगतय एव दोषाः स्युस्तस्मालाघवाद दुरुपक्रम भवति विषम्। इति दश गुणकर्माणि सुश्रुते चोक्तानि। “तद्रौक्ष्यात् कोपये वायुमौष्ण्यात् पित्तं सशोणितम्। मानसं मोहयेत् तण्यादङ्गवन्धान छिनत्यपि । शरीरावयवान् सौम्यात् प्रविशेद विकरोति च। आशुखादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत्। क्षपयेच्च विकाशिखाद दोषान् धातून मलानपि। वेशद्यादतिरिच्येत दुश्चिकित्स्यश्च लाघवात्। दुर्जरश्चा. विपाकिवात् तस्मात् क्लेशयते चिरम्। स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम्। सद्यो व्यापादयेत् तत् तु शेयं दशगुणान्वितम्" इति ॥१२॥ असग्रहण्न योगवाही भवति, विषमपि रसमांकानुयातं सर्ववानुगतं भवति। शीघ्रमित्यादी शीघ्रत्वादाशु व्याप्नो.त, व्यवायित्वात् केवलं देह व्याप्नोतीति विज्ञेयम्। व्यवायित्वं सर्वसः प्रसरणशीलत्वं पानीयपतिततैलवत्। तीक्ष्णत्वान्ममन्नमिति। मर्मणां सौम्यानां मृदूना तीक्ष्णेन विरुद्धत्वात् बोद्धव्यम्। विकासित्वादिति विकसनशीलत्वात् । सर्वत्र हि कस् हिंसाः । लधुत्वादित्यनवस्थितत्वात्। यस्य चानवस्थितत्वं तस्य भेषजेणोपक्रममकिञ्चिन्करम् । असक्ता विश्रान्ता दोषेषु गतिर्यस्य तत् असक्तगतिदोषं लघुत्वादनवस्थितत्वम् । विश पिच्छाभागरहितत्वात् क्वचिन्न सजति । स च गुणानां प्रतिनियमेन बिरुद्धकर्मकरणे विषस्यासिद्धत्वमेव ज्ञेयम् । तेन रूक्षादिभिः श्लेष्मक्षयात् यद् द्रवाशङ्कनीयं सुश्रुते च विषाणे अपाकित्वमुक्तं तदाशुकारिविषे तु प्रयोजनमिति नेहोक्तम् । तथाहि विपिनस्तावन्तं कालमपेक्षन्ते येन यावास्य पाको भवत्यविचार्य। सुश्रुते च कालान्तरप्रकोपादि यढवयमुकं तदिहापि दूषीविषेचिन्तनीयमिति ॥ १२॥
For Private and Personal Use Only